________________
३०३
परिशिष्ट-१ ५"बालीककालागुरुगन्धसार-कर्पूरपारीमृगनाभी( भि )गन्धैः । आशा अवास्यन्त यदीयहट्टै-र्यशःप्रसारैरिव सज्जनानाम् ॥४२॥ गभीररावैर्व्यवहारभाजां, घनोपलाङ्कः स्फटिकावलीभिः । अन्तर्निबद्धारुणरत्नविधु-द्विलम्बिमुक्तालतिकाबलाकैः ॥८३॥ इतस्ततो निष्पतबिन्दुकान्त-कान्ति प्रतानाङ्करवारिधारैः । महेन्द्रनीलोपलबद्धहट्टैः, पयोदवृन्दैरिव यत्र जज्ञे ॥८४॥ युग्मम् ॥ स्वर्लोकभूलोकभुजङ्गलोक-पुरी: पराभिभूय( पराभूय) यया विभूत्या । मौलौ जयाङ्का इव तुङ्गगेहे, शृङ्गप्रणद्धां कुटका ध्रियन्ते ॥८५॥ परस्परेरेण( परेण) प्रतिबिं( बिम्बि )ताभि-र्यस्यां मणीमन्दिरमण्डलीभिः । रहस्यवृतिः स्थितभित्तिगर्भ-जनस्वनेनेव वितन्यते स्म ॥८६॥ यदालयैर्हेलितहेलिमालै-रभ्रंलिहैनि( नि )दलिताङ्ककारैः । मन्ये मणीलोचनमालिकाभि-विजेतुमालोक्यत नाकलोकः ॥८७॥ श्रिया जयन्त्या जगदङ्ककारान्, यया स्म याचे शवशीभवन्त्या । स्वसौधशुद्धध्वजधोरणीभिः, प्रहस्यते पूरिव पौरुहूती ॥८८॥ ६°कुत्राऽपि चन्द्रोपलचन्द्रबद्ध - सौधोपधेः केलिशुकक्कणेन । सुरद्विषं हन्तुमिवद्विषन्त-मालोच्यते 'चन्द्रनभोमणीभ्याम् ॥८९॥ ६"स्वशात्रवाद्गोत्रभिदो भयार्ते-हिमाद्रिहेमाद्रिमुखैगिरीन्दैः । लघूभवद्भिर्भवनच्छलेन, यस्मिन् शरण्ये शरणीबभूवे ॥१०॥ सादृश्यसंस्पर्धितयाऽवलेपात्, कपोतहुङ्कारगिरेव यस्याम् । परस्परं विग्रहमादधानः, शोणाश्मगेहैररुणीबभूवे ॥११॥ गाङ्गेयगारुत्मतपद्मराग-सन्दर्भगर्भालयमालिकाभिः । भूकान्तकान्तेन सहानुषङ्गे, पुरीश्रिया क्लृप्त इवाङ्गरागः ॥१२॥ विलासवापीजलकेलिलोल-विलासिनीनां पटलच्छलेन । प्रादुर्बभूवुः पुरकौतुकानि, दृग्गोचरीकर्तुमिवाम्बुदेव्यः ॥१३॥ विद्योतिताऽशेषदिगन्तराभि-मणीमयीभिर्भवनावलीभिः । धिक्कारितध्वान्तमिवाङ्कदम्भा-दुवास राज्ञः शरणार्थमङ्के ॥१४॥ "नीलाश्मवेश्मप्रतिबिम्बमन्त-दधद्भिरेतत् तपनीयगेहैः । रामेण नीलं 'वहता दुकूलं, श्रिया समालम्ब्यत तुल्यभावः ॥१५॥ वृन्दारकालीभिरलङ्कृताया, असूययेवामरराजपुर्याः । तृणीकृतश्रीतनयावनीप-रूपानसौ धारयति स्म मान् ॥१६॥ प्रभापराभावुकवैभवायाः, यस्याः स्वपुर्याश्च परस्परेण ।
1. कुम्भनिकेतयोश्चन्द्रनभोमणीभ्याम् । इति टि० । 2. केलिशुकवणेन इति टि०। 3. दधता इति टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org