________________
'श्री हीरसुन्दर' महाकाव्यम् उत्तीर्णगीर्वाणगणैर्जनानां, व्याजादिवावि:क्रिी क्रियते स्म साम्यम् ॥१७॥ लघूकृतस्वर्ललनाविलासा, विलासिनीर्यत्र निभालयित्वा । विहाय गेहं स्वमिवादितेयै-रिहावतीर्ण व्यवहारिदम्भात् ॥१८॥ सर्वानुवादैरिव मीनकेतो-लीलालसैर्यत्र विलासिवृन्दैः । निर्भसितैर्भूमितलं भूजङ्गै-र्मदाक्षलक्ष्यैरिव विश्यते स्म ॥१९॥ विगानितानङ्गकुरङ्गनेत्रा-श्चकासिरे यत्र गजेन्द्रयानाः । अमोघशक्तीर्मकरध्वजोर्वी-पुरन्दरस्येव जगद्विजेतुम् ॥१०॥ त्यक्त्वा श्रुतीन् कञ्चकिनो द्विजिह्वान्, प्राणप्रियान् यौवतकैतवेन । पुरी किमेतद्युवकामुकीभि-रध्यास्यते नागनितम्बनीभिः ॥१०१॥ मदालसा यत्सरसीरुहाक्ष्य, श्रीमन्मनोजन्ममहाबोनः । इवाग्रदूत्यः परिकल्पयन्त्य-स्तदेकतानानि मनांसि यूनाम् ॥१०२॥ पदे पदे यत्पुरुषोत्तमौघान्, वीक्ष्य श्रिया चन्द्रमुखीमिषेण । पतिव्रतौचित्यमिवोद्वहन्त्या, स्वयं बभूवेव कुमूर्त्तिमत्या ॥१०३॥ कुमारगौरीगणपशुपाणि-महेश्वरादीनिदमकमाप्तान् । . इवावमन्यस्फटिकाचलेन, प्रापेऽनुनेतुं सितसाललक्षात् ॥१०४॥ "निरीक्ष्य यस्यां मणिवेश्मभित्तौ च्छायां विमुग्धेन युवद्वयेन । निखेलता पुष्पधनुर्मतेऽपि, भ्रान्त्येव यूनोः परयोय॑वति ॥१०५॥
"विधूदये शृङ्गशशाङ्ककान्त-निष्पातिपाथःप्रसरत्प्रवाहैः । निर्यज्झराः सानुमतां समूहा, यस्यां व्यडम्ब्यन्त विलाससौधैः ॥१०६॥ संज्ञानदानादिव सौधलोल-ध्वजोपधेः पाणिपयोरुहेण । वियोगवत्या वसुधायुवत्या-म्भोवाह आहूयत यत्र कान्तः ॥१०७॥ यत्कौतुकानीव दृशा निपीय, क्रीडागताभिस्त्रिदशाङ्गनाभिः । पाञ्चालिका नाकिभवान् निमेषे नि:स्वेक्षणाभि[ : ] स्तिमिताभिरासे ॥१०८॥ आर्योपयामे पुनरङ्गभाजा, कौतूहलेनेव मनोभवेन । रत्या स्वमूर्तीर्बहुधा विधाय, रेमे युवद्वन्द्वनिभेन यस्याम् ॥१०९॥ नभेऽतिवाहाद्विगतावलम्ब-श्रमाकुलीभूततयानयेव । यत्तुङ्गगेहोपरिवज्रदण्ड-ध्वजोपधेः स्वःसरिता ललम्बे ॥११०॥ "दिवोबलेर्वेश्मनि यातविष्णोः, पदादिव भ्रष्टसुरेन्द्रसिन्धोः । ज्योत्स्नीषु यच्चान्द्रगृहच्युताम्भो-निभादवापे पृथिवीप्रवाहै: ॥१११॥ कुत्रापि सन्दृब्धमहेन्द्रनील-निकेतनानामिह कैतवेन । महीमहेलामिव विप्रयुक्तां, चिरादवापे मिलितुं घनेन ॥११२॥ ६"चिरात्स्वविश्लेषवतीं धरित्री, पयोमुचा स्थासयितुं नभस्तः । प्रस्थापिता यत्र मणीसुवर्ण-प्रासाददम्भाज्जलबालिकेव ।११३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org