________________
३०२
'श्री हीरसुन्दर' महाकाव्यम् अदुन्दुभीयन्त पिकाङ्गनानां यस्मिन्स्वनाः पञ्चमगीतिगर्भाः ॥६५॥ पदे पदे यत्र रसालमाला निभाल्य कूजत्कलकण्ठबालाः । स्मरावनीन्दुस्तृणवत्रिलोकी-मजीगणन्निस्तुलशस्त्रलाभात् ॥६६॥ इति । ४५प्रह्लादनाह्वा नगरी चकास्ति हिरण्मया तत्र हरेः पुरीव । श्रीगूर्जरक्षोणिपुरन्दरस्य माणिक्यगर्भेव कुनाभिकुम्भी ॥६७॥ भर्ता मरुत्वान्मम कौशिकश्च गोत्रस्य हन्तेति जुगुप्समाना । मिषादमुष्याः परिहृत्य नाकं पुरी किमागादिह पौरुहूती ॥६८॥ ५ यस्यां मणीकर्मविनिर्मिताना-मभ्रंलिहानां गृहयारणीनाम् । मध्यंदिने शृङ्गगणाङ्गणेषु मार्तण्डबिम्बं कलशायते स्म ॥६९॥ ५'छायापथोऽभ्रंलिहमन्दिराणां दण्डायते - शिखान्तरेषु । ध्वजायते सिद्धधुनी ध्वनन्त्यो-ऽप्यकिङ्किणीयन्त तदीयहंस्यः ॥७०॥ ५२अखेलि खे यद्गृहश्रृङ्गवात-वेल्लत्पताकापटपल्लवीधैः । यद्दर्शिभिर्विष्णुपदीप्रवाहैः सहस्रकायैः कुतुकादिवासे ॥७१॥ यद्वर्णनाकर्णनतद्दिदृक्षा - रत्नाकुलीभूतहृदार्णवेन । अस्थायि यस्यां परिखामिषेण, जाने लघूभूतवता समेत्य ॥७२॥ ५रोमाञ्चिता वीचिचयेन मीनैः, स्मितेक्षणा द१ररावचाटुः । विलासिभिरविलासिनीव, प्रभञ्जनैर्यत्परिखा न्यषेवि ॥७३॥ ५"चिराशनायाकुलितं कुरङ्ग, सुधाऋचा चारयितुं नभस्तः । उपान्तसंरूढविनीलनीले, बिम्बच्छलाद्यत्सलिलेऽवतेरे ॥७४॥ ५५उदस्तहस्ते पवनावधूत-वीचिच्छलाद् त् ) खातिकयेव यस्याः । एतत्पुरस्ते कियती विभूति-र्वस्वोकसारेति विगीयते स्म ॥७५॥ ५६मातङ्गिनी पुष्पकरम्बिताङ्गी, कृतानुषङ्गा मधुपैरितीव । विगानधूत्यै कुरुते वनश्री-बिम्बेन दी( दि )व्यं परिखाप्रवाहे ॥ ५ आरामलक्ष्मीरभिसारिकेव, सालेन यूना सह संसिसृक्षुः । बिम्बोपधेः शासनहारिकां स्वां, चिकीर्षुरागात्परिखामिवैषा ॥७७॥ ५“यद्वप्रनानामणिराजिनिर्य-ज्ज्योतिःप्ररोहैर्दिवि संचरद्भिः । प्रपञ्च्यते स्म प्रसरत्पयोदं, विनाऽपि सङ्क्रन्दनचापचक्रम् ॥७८॥ वहन् हरिं यद्वरणः स लक्ष्मी, कपाटपक्षोऽथ सुवर्णकायः । विगाहमानो गगनं कथं न, लभेत तार्थेन(ण) सदृक्षभावम् ॥७९॥ प्रियं ब्रुवाणा जनतारवेण, सारङ्गनाभीसुरभीभवन्तम् । गजेन्द्रयानां वरणो युवेव, पुरीमहेला परिरभ्य तस्थौ ॥८०॥ जगत्त्रयीसंभवशस्तवस्तु-विस्तारसम्पूरितमध्यदेशैः । यत्रापणैः कुत्रितयापणानां श्रेणी सगोत्रैरिव भूयते स्म ॥८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org