Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परिशिष्ट - १
यस्मिन्नृणां क्रीडितुमागतानां हंसस्वनैः स्वागतवादिनीभिः । आदाय पद्मानि तरङ्गहस्तैः सरिद्भिरर्थः किमु कल्यते स्म ॥४९॥ ३"कुरङ्गनाभीकृतपत्रभङ्गै-र्निस्तन्दसान्द्रद्विजचन्द्रिकाः । क्रीडन्महेलावदनारविन्दैर्जज्ञे श्रवन्ती शतचन्द्रितेव ॥५०॥ खेलायितुं यत्र विलासभाजा - माजग्मुषां चन्द्रमुखीसखीनाम् । चक्राङ्गचक्रध्वनितेन जाने स्म शैवलिन्यः सममाह्वयन्ति ॥ ५१ ॥ ३८ निभालय फुल्लद्दलपुण्डरीकं मध्ये प्रवाहं शशभृद्भ्रमेण । ज्योत्स्नाप्रियैर्यत्र विमुग्धचित्तै-रभ्राम्यताभ्यर्ण इवामृतार्थम् ॥५२॥ ३९ श्रेणीभवन्ती कलहंसमाला लीलायते यत्र सरित्प्रवाहे । निर्द्धतमुक्ताफलमालिकेयं श्रिया श्रवन्त्या इव पर्यधायि ॥५३॥ ४० उज्जृम्भिजाम्बूनदपद्मनिर्य-न्मरन्दनिः स्यन्दपिशङ्गिताङ्गम् । पयोधरद्वन्द्वमिव श्रवन्ती श्रिया रथाङ्गद्वयमाबभासे ॥५४॥ स्ववल्लभं वारिनिधिं व्रजन्त्याः कूलङ्कषायाः कलहंसशब्दैः । रणज्झणन्नूपुरझाकृतीनां ध्वानैरिवाभूयत यत्र देशे ॥५५॥ ४१ अशोभि यस्मिन्स्मितहेमपुष्पैर्मधुव्रतव्रातनिपीतपौष्पैः । गाङ्गेयगेहैरिव रन्तुमेतैर्वसन्तकान्तेन निकुञ्जलक्ष्म्याः ॥५६॥ ४२दन्ध्वन्यमानद्विजराजिराव - तूर्यां स्फुरत्कुड्मलकोटिहेतिम् । यस्मिन्जगज्जेतुमनन्यजन्मा ससज्ज सेनामिव चूतपङ्क्तिम् ॥५७॥ ४ सर्वर्त्तुभिर्यत्र पुरोपकण्ठ-क्रीडावनान्तर्वसतिर्वितेने 1 यद्भाविनं हीरकुमारराजं सम्भूय सुश्रूषयितुं किमेतैः ॥५८॥ प्रेङ्खोलितैर्यत्र जलेन स्वगै: सुधांशुदेशीयविकाशिकासैः । श्रिया निकुञ्जस्य वसन्तकान्तः प्रकीर्णकौघैरुपवीज्यते स्म ॥५९॥ केलीवने यत्र पिकद्विरेफध्वानोपधेः पुष्पधनुर्वसन्तौ । विनिर्मिमाते स्म मिथः प्रवृत्तिं मृत्युञ्जयं जेतुमिव प्रतीपम् ॥६०॥ ४४भृङ्गेक्षणाश्चन्दनपत्रभङ्गा-बिम्बाधराः कोकिलबालरावाः । मत्तेभयाना इव गन्धवाहै - र्यस्मिन्नसेव्यन्त निकुञ्जलक्ष्म्यः ॥ ६१॥ ४५ वसन्तभत्र सह संसृजन्त्या वनश्रिया यत्र मुदं वहन्त्याः । कुन्दद्रुमाणां कलिकाकलापैर्दन्तैरिवैतैः प्रकटीबभूवे ॥६२॥ ४६ यस्मिन्विभान्ति स्म विलासदोलाः स्मितावनीजन्मशिखाप्रणद्धाः । समं रतिप्रीतिनितम्बिनीभ्यां ससज्जिरे रन्तुमिव स्मरेण ॥ ६३ ॥ ४७ अगायि यस्मिन्मधुरं निकुञ्जे प्रसूनलुभ्यन्मधुपावलीभिः । वसन्तकान्तप्रथमानुषङ्गे वनश्रिया मङ्गलगर्भगीतिः ॥६४॥ * पुष्पायुधो ]र्व्वीतलशीतलांशोः सम्प्रस्थितस्येव जगद्विजेतुम् ।
Jain Education International
For Private & Personal Use Only
३०१
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350