Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 308
________________ २९५ अष्टमः सर्गः ॥ हीसुं० 'प्रेक्ष्य 'स्वदाहे ज्वलितास्त्रमालां जेयं कथं 'विश्वम थो मयेति ।। 'पितामहोऽदान्मदनस्य तस्याः सीमन्तदण्डं विमनायितस्य ॥१५९॥ (१) दृष्टवा । (२) शम्भुना स्वस्य भस्मीकरणानन्तरे । (३) भस्मीभूतां प्रहरणश्रेणीम् । (४) जेतुं शक्यम् । (५) प्रहरणानि विना । (६) स्वजनकजनको विधाता च । (७) दत्तवान् । (८) देवीसीमन्तरूपं दण्डरत्नम् । (८) विरुद्धमनस्कीभवतः । “चिराय तस्थे विमनाअ(य)मानया" इति नैषधे ॥१५९॥ हील० ज्वलितास्त्रेण मया जगत्कथं जेयमिति विमनस्कीभूतस्य स्मरस्य ब्रह्मा पौत्रप्रेम्णा दण्डरत्नं दत्तवान् ॥१६४॥ हीसु० सिन्दूरपूर प्रचितेन तस्याः सीमन्तदण्डेन शिरोरुहाली । विद्युद्विलासेन पयःप्रपूर्ण:(र्ण )पयोमुचां पङ्क्तिरिव व्यराजत् ॥१६०॥ (१) पूरशब्दो लक्षणया समूहवाची । (२) व्याप्तेन । (३) केशश्रेणी । (४) तडिद्वितानेन । (५) सलिलसम्पूरितमेघानाम् । (६) मालिकेव ॥१६०॥ हील० सिन्दूरपूरितेन सीमन्तदण्डेन कचच्छटा भाति स्म । यथोन्नतजीमूतपङ्क्तिविद्युद्विजृम्भितेन विराजते ॥१६५॥ - हीसुं० 'प्रफुल्लमल्लीकुसुमावनद्धयत्केशपाश: स्फुरयाम्बभूव । ३अपूजि पुष्पैरिव चामरादिद्विषज्जयस्यावसरे "दिगीशैः ॥१६१॥ (१) विकचमल्लिकापुष्पग्रथितवेणी । (२) भ्राजते । (३) कुसुमैरर्चिता । (४) चामर कलापप्रमुखवैरिविजयप्रस्तावे । (५) दिक्पतिभिः ॥१६१॥ हील० प्रफु०। मल्लीपुष्परचितः केशपाशो भाति । उत्प्रेक्ष्यते । चामरादिजये कृते सति दिक्पालैः पुष्पैः पूजितः ॥१६॥ हीसुं० 'सन्दर्भितान्तर्मुचकुन्दमल्लीकचच्छटायाः कपटादमुष्याः । वक्वेन्दुना मैत्र्यविधित्सयेव ताराङ्कितेयं कुहुरा जगाम ॥१६२॥ (१) ग्रथिता अन्तर्मध्ये कुन्दमल्लिका अर्थात्तत्कुसुमानि यस्यां तादृश्यां केशश्रेणीमिषात् । (२) देवीवदनचन्द्रेण सार्द्धम् । (३) सखितायाः कर्तुमिच्छया । (४) ग्रहनक्षत्रतार कला क)लिता । (५) अमावासीवर स्या)। (६) समेता ॥१६२॥ हील० मुचकुन्दमल्लीकुसुमकलितकेशपाशमिषात्कुहुः । उत्प्रेक्ष्यते । मुखेन्दुना सह मैत्र्यं कर्तुमागता ।। १६७।। हीसुं० वेणीकृपाणा २भुजकर्णपाशा नासानिषङ्गा नयनाशुगा च । भ्रूकार्मुका 'चारुनितम्बचक्रा स्मरास्त्रशालेव सुरी च*काशे ॥१६३॥ (१) कबरीरूपखड्गा । (२) बाहू कर्णौ च पाशा यस्याम् । (३) तूणीर: । (४) नेत्रबाणा 1. विश्वमिदं हीमु० । 2. इति सीमन्तः हील० । 3. इति केशपाशे कुसुमरचना हील०। 4. कासे हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350