SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९६ 'श्री हीरसुन्दर' महाकाव्यम् धनुः (५) विशिष्टं नितम्ब एव रथाङ्गं यस्याम् । (६) मदननृपस्यायुधगृहम् ॥१६३॥ हील० भुजौ कर्णौ पाशौ यस्यां तादृशी कामस्य शस्त्रशालेव सुरी शुशुभे ॥*१६८|| हील०→विभूषणैः स्वर्णमणीप्रणीतैर्वसन्तलक्ष्मीरिव नैकपुष्पैः । विदिद्युते सा मलयानिलैरिवामोदैर्दिश: सौरभयन्त्यहर्निशम् ॥१६९।। काञ्चनरत्नघटिताभरणैः सा भाति । यथा वसन्तो विविधपुष्पैः शोभते । किंकुर्वन्ती(ती)?। स्वाभाविक कायसुरभिताभिर्दिशः सौरभयन्ती । यथा दाक्षिणात्यवायुभिर्दिशः सुगन्धीकरोति ॥१६९।। हील०→ दिव्यैर्दुकूलाभरणैर्विभूषिता सम्पूरयन्ती जगतामपीहितम् । आकृष्य भाग्येन विभोर्मलता नीता पुरस्तादिव देवता बभौ ॥१७०॥ देवता बभौ । उत्प्रेक्ष्यते । सूरीन्द्रभाग्येनाकृष्य आनीता कल्पवल्ली ॥१७०॥ हीसुं० _ 'निखिलदिविषदो( द्यो)षालेखाकुमुदनकौमुदी, 'श्रिततनुलता रेतद्भाग्यश्रीरिवा'मरसुन्दरी । पनखरशिखरादारभ्येति क्रमाच्चिकुरावधि, "प्रथितसुषमा मा]श्लिष्यन्ती पुरः शुशुभे प्रभोः ॥१६४॥ इति पं. देवविमलगणिविरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये शासनदेवता समागमनतत्सर्वाङ्गवर्णनो नामाष्टमसर्गः ॥ ग्रन्थाग्रं ॥२२५॥ (१) समस्तसुरवनितापङ्क्तिकैरवकाननेन आह्लादचन्द्रचन्द्रिका। (२) अङ्गीकृता शरीरयष्टिर्यया । (३) तस्य सूरीन्द्रस्य भाग्यलक्ष्मीरिव । (४) शासनदेवता । (५) चरणनखाग्रात् । (६) केशपाशं यावत् । (७) त्रिजगद्विख्यातां सातिशायिनी शोभामाश्रयन्ती ॥१६४॥ इत्यष्टमः सर्गः ॥ ग्रन्थाग्रं ॥३२५॥ हील० सकलस्वर्गाङ्गनानां लेखा श्रेणी सैव पङ्कजवनं तत्र चन्द्रज्योत्स्ना सदृशी पुनः सूरीशभाग्यलक्ष्मी [रिव चरणनखा]दारभ्य केशपाशान्तं यावत्सातिशयशोभा पुष्यन्ती सा शासनामरसुन्दरी सूरिपुरः शुशुभे इति ॥१७१॥ हील०→ यं प्रासूत शिवाहासाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविद सिंहसी( सिं)हविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक् सौभाग्याभिधहीरसूरिचरिते सर्गोऽजनिष्टाष्टमः ॥१७२॥ इति श्रीपं.सी(सिं)हविमलगणिशिष्यपं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये ध्यान-शास देवतागम-[देवीः ?]सर्वाङ्गवर्णनो नामाष्टमः सर्गः ॥ *- एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy