Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 305
________________ २९२ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'संस्पधिभावं दधता स्वलक्ष्म्या खण्डेन "चण्डेतरकान्तिनेव । जग्राह “योद्धं त्रिदशीललाटं भ्रूयुग्मकायां 'करवालयष्टिम् ॥१४७॥ (१) स्पर्धनशीलताम् । (२) निजश्रिया ।(३) अर्धेन । (४) शीतकान्तिना । चन्द्रेणेत्यर्थः । (५) युद्धं विधातुम् । (६) देवीभालम् । (७) कर्तृभ्रूद्वन्द्वरूपाम् । (८) खड्गल म ॥१४७॥ हील. संस्प०। स्वशोभया स्पर्धावताऽर्धचन्द्रेण सह योद्धम् । उत्प्रेक्ष्यते । त्रिदश्या भालं भ्रूयुग्ममेव कायः शरीरं यस्यास्तादृशीं निशितनिस्त्रिंशलतां ग्रहयांबभूव ॥१५१॥ हीसुं० स्मरं रतिप्रीतिनितम्बिनीभ्यां सहाभिषेक्तुं भुवनाधिपत्ये । "यद्भालदम्भाज्जलजासनेन मन्ये 'प्रणिन्ये 'कलधौतपट्टः ॥१४८॥ (१) रतिप्रीतिसंज्ञाभ्यां प्रियाभ्याम् । (२) समम् । (३) त्रैलोक्यराज्ये । (४) अभिषेकं कर्तुम् । (५) देवीललाटच्छलात् । (६) ब्रह्मणा । (७) अहमेवं जाने । (८) कृतः । (९) स्वर्णपट्टकः ॥१४८॥ हील. रतिप्रीतिभ्यां सह श्रीनन्दनं त्रैलोक्यराज्ये अभिषेक्तुं, अभिषेकं कर्तुम् । अहमेवं मन्ये यल्ललाटछद्मता वेधसा काञ्चनपट्टको विनिर्मित इव ॥१५२॥ हीसुं० त्रैलोक्यमा क्रम्य 'पराक्रमेण सुखं निषन्न( ण्ण )स्य झषध्वजस्य । "व्यधत्त 'हेम्नः फलकं विधाताऽवष्टम्भनायेव तदीयभालम् ॥१४९।। (१) पराभूय । (२) बलेन । (३) सुखेनोपविष्टस्य । (४) चकार । (५) स्वर्णस्य । (६) पृष्टिदानाय । (७) देवीसम्बन्धिललाटम् ॥१४९॥ हील० तदीयभालं भाति । उत्प्रेक्ष्यते । मीनकेतोः पृष्ठप्रदानार्थं हेमफलकम् ॥१५३॥ हीसुं० अधृष्यमन्विष्य यदीय भालं 'द्वेष्यं निजं(ज)स्पर्दिधतया ५जिगीषत् । ६अर्धामृतांशुः प्रपलाय्य “पूषद्विषो जटाजूट इव प्रविष्टः ॥१५०॥ (१) अनाकलनीयम् । (२) दृष्ट्वा । (३) वैरिणम् । ( ४ ) स्वस्य स्पर्धनशीलत्वेन । (५) जेतुमिच्छत् । (६) अर्धचन्द्रः । (७) नंष्ट्वा । (८) ईश्वरस्य ॥१५०॥ हील० अधृष्य० । यस्या, भालं जेतुमिच्छत्दृष्ट्वार्धचन्द्रो नंष्ट्वा शर्वजटायां प्रविष्ट इव ॥*१५४|| हीसुं० अद्वैतलक्ष्मीकमवेक्ष्य यस्या भालं रेतदीयश्रियमी हमानः । 'विश्वम्भरस्येव पदे लगित्वा “तां 'मार्गयत्यर्भ इवार्धचन्द्रः ॥१५१॥ (१) असाधारणशोभाभासुरम् । (२) दृष्ट्वा । (३) भालसम्बन्धिशोभाम् । (४) काङ्क्षन् । 1. इति भूवोयम् हील० । 2. ०णिन्यै हीमु० । 3. निजं प्रति स्पर्धितया जिगीषत् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350