Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 304
________________ अष्टमः सर्गः ॥ २९१ हील० अस्याः श्रवसी । उत्प्रेक्ष्यते । अभ्यासं कुर्वता कामधनुर्धरण वेध्ये मण्डिते एव । चेन्न तहि अनयोर्मध्ये कजबाणौ कथं वर्तेते ॥१४६।। हीसुं० कटाक्षबाणान्प्रगुणान्प्रणीय स्व:सुभ्रुवो भूः "कुटिलीभवन्ती । धनुर्लता ५श्रीसुतधन्विनेव प्रसाधिताभात्त्रिजगज्जयाय ॥१४३॥ (१) सज्जान् । (२) विधाय । (३) देव्याः । (४) वक्रा जायमाना । (५) मदन धानुष्केन । (६) सज्जीकृता ॥१४३॥ होल० देवीभ्रू ति । उत्प्रेक्ष्यते । कटाक्षबाणान्सज्जान् कृत्वा कामेन जगज्जयार्थं धनुः प्रगुणीकृतम् ॥१४७॥ हीसुं० 'उज्जृम्भवक्त्राम्बुजमन्दिराया 'लीलाप्रवालोऽयमिवेन्दिरायाः । "उप्ता 'तया वा फलिनीव भालाजिरे विरेजे “सुरसुभ्रुवो भ्रूः ॥१४४॥ (१) देव्याः विकसितवदनकमलवसतेः । (२) क्रीडाकृते पल्लवः । (३) लक्ष्याः । (४) प्ररोपिता । (५) श्रिया ।(६) प्रियङ्गलता । (७) ललाटरूपप्राङ्गणे । (८) देव्याः ॥१४४॥ हील० भ्रू रेजे । उत्प्रेक्ष्यते । यन्मुखस्थलक्ष्म्यास्तमालसालपल्लवः । पुनस्तया भालाङ्गणे रोपिता प्रियङ्गुलता ॥१४८॥ हीसुं० 'मिथो 'मुनीन्द्रेण मृधे 'मनोभूभूमीपति जर्जरिताङ्गयष्टिः । सुपर्वसुभ्रूभ्रुवमा श्मगर्भयष्टीमिवा लम्बकृते 'ततान ॥१४५॥ (१) परस्परम् । (२) हीरविजयसूरिशक्रेण । अपरवर्णनसमये मा वर्णनीयनायको विस्मृतः स्यादिति तदन्तराले मुनीन्द्रपदोपादानम् । यथा नैषधेऽपि कुण्डिनपुरवर्णनाधिकारे - “पयसा नैषधशीलशीतल''मिति । (३) सङ्ग्रामे । (४) स्मरनृपः । (५) भग्नास्थिपुञ्जा वपुलता यस्य । (६) देवीभ्रुवम् । (७) मरकतमणिमयदण्डम् । (८) शरीराधारकृते । (९) चकार ॥१४५॥ होल० श्रीहीरविजयसूरिणा सह युद्धे जर्जरीभूतां भ्रूरूपाम् । उत्प्रेक्ष्यते । आधारार्थं मरकतमयं दण्डं काम: कृतवान् ॥१४९॥ हीसुं० 'नीलारविन्देन 'पुरा प्रणीय दृशं त्रिदश्या: "सरसीजजन्मा । पकिञ्जल्कवृन्दैदने 'तदीये "प्रणीतवान्भ्रूलतिकामि वास्याः ॥१४६॥ (१) कुवलयेन । (२) पूर्वम् । प्रथमम् । (३) कृत्वा । ( ४) विधाता ।(५) तत्कुवलयकेसर निकरैः । (६) देवीवदने । (७) चकार । (८) देव्याः ॥१४६॥ हील० धाता नीलकमलेन नेत्रे कृत्वा पश्चात्केसरैर्दूलतामकरोत् ॥१५०।। 1. तदीयैः हीमु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350