Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अष्टमः सर्गः ॥
२८९ हीसुं० चन्द्राच्चकोरोऽमृतपानदम्भाद्यानस्थितो गन्धवहात्कुरङ्गः ।।
"पितामहात्पङ्कजमा सनस्थं यदक्षिलक्ष्मीमिव ‘मार्गयन्ति ।।१३४॥ (१) सुधापानार्थागमनमिषात् । (२) वाहने स्थितः । (३) पृषदश्वो वायुस्तथा-"कर्तुं शशाङ्काभिमुखं न भैम्यां मृगं दृगम्भोरुहनिर्जितं यत् । अस्या विवाहाय ययौ विदर्भास्तद्वाहनस्तेन न गन्धवाह" इति नैषधे । वातात् । (४) विधातुः । (५) कमलम् । (६) विष्टर: पीठमासनम् ।
सरोरुहासनत्वात् । (७) देवीनयनश्रियम् । (८) याचन्ति ॥१३४॥ हील चन्द्राच्चकोरो यच्चक्षुषः शोभा याचतीव । पुनर्वाहनत्वेन स्थितो मृगो वायोर्गियति । पुनरासनरूपं
पङ्कजं ब्रह्मणो याचति ॥१३८॥ हीसुं० 'स्मितं निशाहोरपि नित्यरङ्गद्धृङ्गाङ्कितं स्याद्यपि पुण्डरीकम् ।
प्रस्यन्दमानान्तरतास्किायास्ततोऽनुकुर्यात्रिदिशीदृश स्तत् ॥१३५॥ (१) विकसितम् । “स्मितं दिवा निश्यपि" इत्यपि सूत्रपाठः । (२) अविरहितभ्रमभ्रमरकलितम् । (३) चलन्ती विचाले कनीनिका यस्याः । (४) देवीनयनस्य । (५) श्वेतकमलम्
॥१३५॥ हील० यदि पुण्डरीकं सदा विकसितं, उत च भृङ्गाङ्कितं भवेत्ततो भ्रमत्कनीनिका एतस्या दृशमनुकुर्यात्
॥*१३९॥ हीसुं० 'प्रीत्या च रत्या सह मीनकेतोरेरन्दोलनादोहदपूरणाय ।
विनिर्मिमते "नाभिभुवेव लीलादोले तदीये 'स्त्र( श्र)वसी विभातः ॥१३६॥ (१) प्रीतिरतिनाम्न्यौ स्मरपत्न्यौ ताभ्यां सार्द्धम् । (२) स्मरस्य । (३) प्रेङ्खोलनस्पृहापरिपूर्तये ।
"दोहदोऽपि च चलद्वीचीचयैः पूर्यते" इति हंसाष्टके । (४) विधिना । (५) कण्णौ ॥१३६।। हील. तस्याः कर्णौ भातः । उत्प्रेक्ष्यते । स्वपत्नीभ्यां सह स्मरस्य दोलनेच्छापूर्तये धात्रा केलिप्रेड्डोले विहिते
॥१४०॥ हीसुं० 'मोघीकृताशेषशरं 'गिरीशं प्रत्यर्थिनं "पाशयितुं "कथञ्चित् ।
६अधारि पाशो "विषमायुधेन “यद्वेश्मनेव श्रवणच्छलेन ॥१३७॥ (१) विफलीकृतसमग्रबाणम् । (२) ईश्वरम् । (३) शत्रुम् । (४) पाशयन्त्रितं कर्तुम् । (५) केनापि प्रकारेण । (६) धृतः । (७) मदनेन । (८) देवीशरीरवासिना ।
(९) कर्णकपटात् ॥१३७॥ हील० मोघी०। या देवी एव वेश्म यस्य तादृशेन स्मरेणेशं पाशयितुं श्रोत्रदम्भात् । उत्प्रेक्ष्यते । पाशो धृतः
॥१४१॥ हीसुं० 'धृतैकपाशेन पयोधिधाम्ना स्वाङ्कप्रभुत्वेन किमात्मयोनिः ॥
"स्पर्धी दधानः "स्त्र( श्र)वसी त्रिदश्याः पाशद्वयीमाकलयांचकार ॥१३८॥ 1. दिने निश्यपि हीमु० । 2. कां तत्तनोतु कुर्यादृशमेतदीयाम् हीमु० । 3. इति लोचनम् हील० । 4. इति कर्णी हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350