Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 300
________________ २८७ अष्टमः सर्गः ॥ हील० स्मरेण शम्भोः पञ्चवदनानि प्रति पञ्चबाणान् मुक्त्वा यदङ्गे रिक्तस्तूणो मुक्तो नासिका जातः ॥ १२७॥ हीसुं० स्वमन्दिरे यद्वदनारविन्दे लावण्यलक्ष्म्या प्रकटीकृतेव । "भ्रूकैतवात्कज्जल ' मुद्गिरन्ती 'प्रदीपलेखा विललास नासा ॥ १२४ ॥ (१) निजगृहे (२) देवीवक्त्रपद्ये । (३) लवणिम्नः श्रिया । (४) उद्बोधिता । (५) श्यामां भूमिषादञ्जनरेखाम् । (६) मुञ्चन्ती । सृजन्ती । (७) दीपकलिका ॥ १२४॥ हील० दीपसमाना नासा भाति ॥ १२८॥ हीसुं० 'निजप्रतिद्वन्द्विविधुन्तुदस्य निरीय भाग्याभ्युदयेन वक्त्रात् । 'पुनस्त'दातङ्कितचेतसेव 'यद्गण्डभूयं विधुना 'नुसत्रे ॥ १२५ ॥ ( १ ) स्वशत्रुराहोः । (२) निर्गत्य । ( ३ ) पुण्यपरिपाकेन । ( ४ ) द्वितीयवारमपि । (५) तस्माद्द रार्भीतियुक्तचित्तेन । (६) देवीगल्लभावम् । (७) अनुसृतम् ॥१२५॥ हील. राहुमुखाद्भाग्येन निर्गत्य पुनस्तद्भयादिव यत्कपोलतां श्रिता ॥ १२९ ॥ हीसुं० 'यदास्यतोऽभ्यर्थयितुं विभूषाभरं त्रियामादयितात्मदर्शी । “तन्नित्यसेवाविधये 'कपोलपालीद्वयीभावमिवाभजेताम् ॥१२६॥ (१) देवीमुखात् । (२) याचितुम् । (३) शोभातिशयम् । ( ४ ) चन्द्रदर्पणौ । (५) देवीमुखस्य सदा पर्युपास्तिकृते । ( ६ ) गण्डद्वन्द्वत्वम् । “कपोलपालीजनितानुबिम्बयो" रिति नैषधे ॥१२६॥ हील० यदास्यतो विभूषां याचितुम् । अत एव देवीवदनसेवार्थं चन्द्रदर्पणौ कपोलभावं प्राप्तौ ॥१३०॥ हीसुं० कपोलभित्तौ 'मृगनाभिपङ्कैश्चित्रीकृतोऽस्या कर । 'यद्वेश्मनोऽदृश्यतनोर'नङ्गतयात्मयोनेरिव 'लक्ष्म "लक्ष्यम् ॥१२७॥ (१) कस्तूरी द्रवै: ( २ ) मच्छय ( त्स्य ) विशेषः । " कपोलपत्रान्मकरात्सकेतु" रिति नैषधे । ( ३ ) देवीरूपगृहस्य । ( ४ ) न नयननिरीक्षणीयशरीरस्य । ( ५ ) कायरहितत्वेन स्मरस्य । ( ६ ) केतनं चिह्नम् । (७) दृश्यम् ॥१२७॥ हील० कपोले कस्तूर्या कृतो मगर इति लोकप्रसिद्धः । स शुशुभे । उत्प्रेक्ष्यते । अनङ्गत्वेनादृश्यस्य स्मरस्य दृग्दृष्टं चिह्नम् ॥१३१॥ हीसुं० १हिरण्यगर्भः प्रणयन्सुरीं तां विद्योऽरविन्दं वदनीचकार । ४ मरन्दलुभ्यन्नयनद्विरेफौ न चेद्भवेतां कथमन्यथास्मिन् ॥१२८॥ ( १ ) धाता । ( २ ) कुर्वन् । (३) जानीम इवार्थो वा । ( ४ ) मकरन्देषु लोलुपौ भवन्तौ नेत्रे एव भृङ्गौ । (५) वदनपद्मे ॥ १२८ ॥ ब्रह्मणा कमलेन मुखं कृतम् । इदं नो चेदस्मिन्नेत्रे इव भ्रमरौ कथं भवेताम् ॥ १३२ ॥ हील० 1. इति नासिका हील० । 2. ०कासे हीमु० । 3. इति कपोल: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350