Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२८६
'श्री हीरसुन्दर' महाकाव्यम् उद्वेगकलितः । (४) कमलकैरवकाननेभ्यः ।(५) परिमलः । (६) अस्या देव्या वदनकमले
॥११९॥ हील० सङ्कोचविकाशाभ्यां दूषितेभ्यो मद्यपैर्धमरैर्वा प्रसङ्गवद्भयः सर्वकमलेभ्यः खेदवान्परिमलाऽदामुख
स्थितः ॥१२३।। हीसुं० 'विश्राणयित्वेव 'पुरा स्वसार सौरभ्यमेतद्वदनाम्बुजाय ।
५शोभा सहस्त्रांश इतः पयोजपरम्पराभिर्ग्रहयांबभूवे ॥१२०॥ (१) दत्वा । (२) पूर्वम् । (३) आत्मनः सारभूतां सुरभिताम् । (४) अस्या वक्त्रपद्माय । (५) देवीवदनस्य शोभानां सहस्रसङ्ख्याकः भागः । (६) देवीमुखकमलात् । (७) पद्मपङ्क्तिभिः । (८) गृहीतः ॥१२०॥ विश्रा० । अस्या मुखकमलाय स्वसौरभ्यं दत्वा । उत्प्रेक्ष्यते । कमलैरितो देवीवदनाच्छोभाया
दशशतसङ्खयोंऽशो भागो गृहीतः ॥१२४॥ हीसुं० व्यर्थीकृतां 'शक्तिमवेत्य पूषद्विषा 'विरक्तेर्निजहेतिहातुः ।
"तूणीरमादाय 'मनोभवस्य विरञ्चिना"स्या "व्यरचीव १२नासा ॥१२१॥ (१) निष्फलीकृताम् । (२) स्वबलम् । (३) ज्ञात्वा । (४) शम्भुना । (५) वैराग्यात् । (६) निजप्रहरणानि त्यजनशीलस्य । शीले 'तृन्', 'ओहाक् त्यागे' इत्यस्य होनं शीलो हाता, तस्य हातुः । (७) निषङ्गम् । (८)स्मरस्य । (९) विधात्रा । (१०) कृतम् । (११) देव्याः ।
(१२) नासिका ॥१२१॥ हील. ईश्वरेण स्ववीर्यं व्यर्थीकृतं ज्ञात्वा विरागान्निजशस्त्रत्यजनशीलस्य कामस्य रिक्तं तूणीरं गृहीत्वा : त्रा
तस्या नासा विहिता ॥१२५॥ हीसुं० 'यन्नासिकां वीक्ष्य जगन्निरीक्ष्यामेतत्पुरः श्रीर्मम का "हियेति ।।
शङ्केऽनिशं ५न्यकृतिकैतवेन स्वं 'गोप्यते कीरसृपाटिकाभिः ॥१२२॥ (१) देव्या नासाम् । (२) जगज्जनानां निरीक्षणयोग्याम् । (३) एतस्या देवीनासाया अग्रे। (४) लज्जयेति । (५) अधःकरणकपटात् । (६) गुप्तं क्रियते । छन्नं रक्ष्यते । (७)
शुकचञ्चुभिः ॥१२२॥ हील० यन्ना०। यत्रासिकायाः पुरो मम का शोभेति व्रीडात् । अहमेवं मन्ये । नीचैष्क(: क)रणकैतवेन
शुकचञ्चभिः स्वं गोप्यते ॥१२६।। हीसुं० 'मुक्त्वा 'द्विषः पञ्चमुखी प्रति स्वान्पञ्चापि ५रोषान्स्मरधन्विनाजौ ।
यदङ्गवासौकसि किं 'निषङ्गो रिक्तो १०विमुक्तोऽ११जनि नासिकाऽस्याः ॥१२३॥ (१) क्षिप्त्वा । (२) शम्भोर्वैरिणः । (३) पञ्च वक्त्राणि प्रति । (४) आत्मीयान् । (५) बाणान् । (६) मदनधानुष्केन । (७) देव्याः शरीरमेव वसनार्थं गृहं तत्र । (८) तूणीर ।
(९) वारव्यत्ययात् बाणरहितः । (१०) स्थापितः । (११) जाता । (१२) देव्याः ॥१२३॥ 1. इति वदनपरिमल: हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350