SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८६ 'श्री हीरसुन्दर' महाकाव्यम् उद्वेगकलितः । (४) कमलकैरवकाननेभ्यः ।(५) परिमलः । (६) अस्या देव्या वदनकमले ॥११९॥ हील० सङ्कोचविकाशाभ्यां दूषितेभ्यो मद्यपैर्धमरैर्वा प्रसङ्गवद्भयः सर्वकमलेभ्यः खेदवान्परिमलाऽदामुख स्थितः ॥१२३।। हीसुं० 'विश्राणयित्वेव 'पुरा स्वसार सौरभ्यमेतद्वदनाम्बुजाय । ५शोभा सहस्त्रांश इतः पयोजपरम्पराभिर्ग्रहयांबभूवे ॥१२०॥ (१) दत्वा । (२) पूर्वम् । (३) आत्मनः सारभूतां सुरभिताम् । (४) अस्या वक्त्रपद्माय । (५) देवीवदनस्य शोभानां सहस्रसङ्ख्याकः भागः । (६) देवीमुखकमलात् । (७) पद्मपङ्क्तिभिः । (८) गृहीतः ॥१२०॥ विश्रा० । अस्या मुखकमलाय स्वसौरभ्यं दत्वा । उत्प्रेक्ष्यते । कमलैरितो देवीवदनाच्छोभाया दशशतसङ्खयोंऽशो भागो गृहीतः ॥१२४॥ हीसुं० व्यर्थीकृतां 'शक्तिमवेत्य पूषद्विषा 'विरक्तेर्निजहेतिहातुः । "तूणीरमादाय 'मनोभवस्य विरञ्चिना"स्या "व्यरचीव १२नासा ॥१२१॥ (१) निष्फलीकृताम् । (२) स्वबलम् । (३) ज्ञात्वा । (४) शम्भुना । (५) वैराग्यात् । (६) निजप्रहरणानि त्यजनशीलस्य । शीले 'तृन्', 'ओहाक् त्यागे' इत्यस्य होनं शीलो हाता, तस्य हातुः । (७) निषङ्गम् । (८)स्मरस्य । (९) विधात्रा । (१०) कृतम् । (११) देव्याः । (१२) नासिका ॥१२१॥ हील. ईश्वरेण स्ववीर्यं व्यर्थीकृतं ज्ञात्वा विरागान्निजशस्त्रत्यजनशीलस्य कामस्य रिक्तं तूणीरं गृहीत्वा : त्रा तस्या नासा विहिता ॥१२५॥ हीसुं० 'यन्नासिकां वीक्ष्य जगन्निरीक्ष्यामेतत्पुरः श्रीर्मम का "हियेति ।। शङ्केऽनिशं ५न्यकृतिकैतवेन स्वं 'गोप्यते कीरसृपाटिकाभिः ॥१२२॥ (१) देव्या नासाम् । (२) जगज्जनानां निरीक्षणयोग्याम् । (३) एतस्या देवीनासाया अग्रे। (४) लज्जयेति । (५) अधःकरणकपटात् । (६) गुप्तं क्रियते । छन्नं रक्ष्यते । (७) शुकचञ्चुभिः ॥१२२॥ हील० यन्ना०। यत्रासिकायाः पुरो मम का शोभेति व्रीडात् । अहमेवं मन्ये । नीचैष्क(: क)रणकैतवेन शुकचञ्चभिः स्वं गोप्यते ॥१२६।। हीसुं० 'मुक्त्वा 'द्विषः पञ्चमुखी प्रति स्वान्पञ्चापि ५रोषान्स्मरधन्विनाजौ । यदङ्गवासौकसि किं 'निषङ्गो रिक्तो १०विमुक्तोऽ११जनि नासिकाऽस्याः ॥१२३॥ (१) क्षिप्त्वा । (२) शम्भोर्वैरिणः । (३) पञ्च वक्त्राणि प्रति । (४) आत्मीयान् । (५) बाणान् । (६) मदनधानुष्केन । (७) देव्याः शरीरमेव वसनार्थं गृहं तत्र । (८) तूणीर । (९) वारव्यत्ययात् बाणरहितः । (१०) स्थापितः । (११) जाता । (१२) देव्याः ॥१२३॥ 1. इति वदनपरिमल: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy