Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 297
________________ २८४ 'श्री हीरसुन्दर' महाकाव्यम् हील० दन्तपङ्किराभात् । उत्प्रेक्ष्यते । पीयूषं क्षीणं दृष्ट्वा चन्द्रेण तदेवानाययितुं जी(जि)ह्वाहूदे ब्राह्मणश्रेणिः प्रेषिता ॥११४॥ हीसुं० जाने 'यदास्यं 'सरसी सुधाया विजृम्भिजिह्वारुणपद्मपत्रम् । ४श्रेणीभवन्तः पुलिनाऽवतंसा हंसद्विजाः स्युः कथम न्यथा स्याम् ॥१११॥ (१) देवीमुखम् । (२) अमृततटाकः । (३) विकसनशीलं रसनैव रक्तकमलदलं यत्र । (४) पङ्क्त्या तिष्ठन्तः । (५) जलोज्झितप्रदेशे तटे च । (६) शेखरीभूताः । (७) हंसवदुज्ज्वलादन्ता हंसपक्षिणो वा । (८) अन्येन प्रकारेण । (९) सुधासरस्याम् ।। १११॥ हील० जाने य० । अहमेवं मन्ये-यदास्यं पीयूषसरसी । अन्यथा तटशेखरीभूताः हंसपक्षिणो वा हंसवदुज्ज्वला दन्ताः कथं भवेयुः ॥११५॥ हीसुं० वद्धिष्णुदेवीहृदयानुरागवारांनिधेविदुमकन्दलीव । ३कंठत्रिरेखेण मुखे गृहीता पुपोष भूषां रसना दसीया ॥११२॥ (१) वर्धनशीलो यो देव्या मनसि । हृदयं-मनो वक्षश्च । रागस्य एव समुद्रस्तस्य । (२) प्रवालनवाङ्करः । "कन्दली तूपरागेऽपि कलापे च नवाङ्करे । मृगजातिप्रभेदे चे"ति लिङ्गानुशासनचूर्णौ । (३) कण्ठरूपशवेन । (४) देवीसम्बन्धिनी । (५) जिह्वा ॥११॥ हील० जी(जि)ह्वा भाति । उत्प्रेक्ष्यते । स्नेहार्णवाद्विद्रुमकन्दली कण्ठशकेन मुखे गृहीता ॥११६।। हीसं० जडीभवन्ती रिपनि ये श्यद्वाचा जिता हीविधुरा पविपञ्ची । पयियासया शैवलिनीशपारे तुम्बद्वयं किं "बिभराम्बभूव ॥११३॥ (१) प्रतिकर्तुमशक्नुवन्तीत्यर्थः । (२) वैरिपराभवनाय । (३) देवीवाण्या । (४) लज्जाव्याकुला। (५) वीणा । (६) गन्तुमिच्छया । (७) समुद्रस्य परे तीरे । (८) धुतवती ॥११३॥ हील० यद्वाण्या जिता स्वास्यं दर्शयितुमशक्नुवन्ती वीणार्णवपारे गन्तुम् । उत्प्रेक्ष्यते । तुम्बे बिभर्ति स्म ।। ११७॥ हीसुं० 'स्त्र(श्र)वःसुधायै 'जगतां यदीयवाचे पिकेन "स्पृहयालुनेव । ५अभ्यस्यते ६भैक्ष्यभुजा तरुभ्योऽ निशं वने पञ्चमगीति सच्चैः ॥११४॥ (१) कर्णयोरमृतभूतायै । पीयूषतोषका ? )सदृशायै । (२) जगज्जनानाम् । (३) देवीगिरे। (४) इच्छनशीलेन । (५) अभ्यास: क्रियते । (६) भिक्षासमूहाहारेण । (७) वृक्षेभ्यः सकाशात् । (८) निरन्तरम् । (९) बाढस्वरेण ॥११४॥ हील० श्रवः । कर्णामृतरूपायै वाण्यै वाञ्छता । अतो वृक्षेभ्यो मञ्जरीकलिकादिभुजा कोकिलेन 1. इति रसना हील० । 2. भैक्ष. हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350