Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२८३
अष्टमः सर्गः ॥ हीसुं० आशानुरागातिशयं 'सृजन्ती 'प्रचेतसः "स्फारमरीचितारा ।
"समुज्जिहानद्विजराजराजिवक्त्रा स्म सन्ध्येव विभाति देवी ॥१०७॥ (१) वाञ्छा दिग् च स्नेहः अनुगतरक्तिमा च उत्कर्षम् । वाञ्छामोहयोरतिशयिताम् । (:) कुर्वती । (३) प्रकृष्टचेतस उत्तमस्यापि वरुणस्य च । (४) दीप्यमानकान्तिमत्तारा कनीनिका तारका च । (५) उद्गच्छन् द्विजराजश्चन्द्रः राजदन्तश्च तेन शोभनशीलं वदनं प्रारम्भश्च यस्याः
॥१०७॥ हील० देवी सन्ध्येव भाति । किंभूता ?। प्रकृष्टचेतसो वाञ्छायाः स्नेहस्य वा रागाधिक्यं वा वरुणदिशि
रागं वा कुर्वन्ती(ती) । पुनर्दीप्रा तारे कनीनिके ज्योतींषि वा यस्याम् । पुनरुद्गतदन्तैरुदितचन्द्रेण
राजते । तादृशं वक्त्रं प्रारम्भो मुखं वा यस्याः ॥१११।। हीसुं० शशी सुधां प्रेक्ष्य निपीयमानां सुरैः सृजंस्तत्र ममत्व मन्तः ।
पररक्ष निक्षिप्य रहो 'रसज्ञापात्र्यामिवैतां कृतयन्मुखाङ्गः ॥१०८॥ (१) चन्द्रः । (२) निजाङ्कस्थायि पीयूषं । (३) सुधायाम् । (४) मोहमूर्छाम् ।(५) चित्ते । (६) गोपयति स्म । (७) संस्थाप्य । (८) एकान्तस्थायाम् । (९) रसनापात्रिकायाम् ।
(१०) निर्मितयद्वदनदेहश्चन्द्रः ॥१०८॥ हील० चन्द्रः सुधायां ममत्ववान् । उत्प्रेक्ष्यते । एकान्ते जी(जि)ह्वापात्रे गोपयति स्म ॥११२।। हीसुं० 'यस्या रसज्ञां 'जयिनीं निभाल्य शोणच्छदं 'तत्तुलनाविलासम् ।
पितामहं प्रार्थयते स्वताता रविन्दगेहे "निवसन्त मूहे ॥१०९॥ (१) देव्याः (२) जयनशीलाम् । (३) दृष्ट्वा । (४) रक्तपत्रमर्थात्कमलस्य । (५) जिह्वासादृश्यलीलाम् ।(६) निजजनकः विधाता च । (७) आत्मनः जन्मकर्तृत्वेन जनकीभूतं कमलम् । तस्य तदेव वा गृहं तत्र । (८) निवासं कुर्वन्तम् । (९) ऊहे विचारयामि । इवार्थे
वा ॥१०९॥ हील. रक्तोत्पलपत्रं कमलस्थं पितामहं जनकजनकं धातारं वा जी(जि)ह्वासादृश्यं याचतीव ।
ण्यन्तत्वाद्विकर्मकत्वम् ॥११३॥ हीसुं० स्वं निष्ठितं नित्यसुपर्व त्यानात्पीयूषम न्विष्य सितत्विषेव ।
"प्रैषी दमा नाययितुं रसज्ञासुधाहूदेऽस्या९ १२द्विजराजिराभात् ॥११०॥ (१) आत्मीयम् । (२) क्षीणम् स्वल्पावशिष्टं वा ।(३) अरोहात्रं देवानां पानवशात् । (i) अमृतम् । (५) दृष्ट्वा । (६) चन्द्रेण । (७) प्रेषिता । (८) पीयूषम् । (९) आत्मार्थे ग्राहयितुम् । (१०) जिह्वारूपामृतद्रहे । (११) देव्याः । (१२) दन्तपङ्क्तिः । (१३) बभौ
॥११०॥ 1. इति दन्ताः हील० । 2. नापयितुं हीमु० । 3. ०हूदो० हीमु० ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350