Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अष्टमः सर्गः ॥
२८१
( १ ) बन्धुजीवस्य 'वपोहरिया' इति प्रसिद्धस्य तरुविशेषस्य सहोदरे जायमानो देव्या अरे । (२) दशनद्युतिः । (३) बभौ । ( ४ ) पतिता । (५) रक्तकमलदलोत्सङ्गे । ( ६ ) घनात्यय-चन्द्रचन्द्रिकेव ॥ ९८ ॥
हील० 'विपोहरीयां' पुष्पं सदृशेऽधरे पतती (न्ती) दन्तरुचिः शुशुभे । यथा रक्तोत्पले चन्द्रज्योत्स्ना पतती (न्ती) शोभते ॥ * १०२ ||
हीसुं० 'पीयूषपूर्णस्मरकेलिशोणमणीनिबद्धाधरदीर्घिकायाम् ।
यस्य विनिद्रद्विजचन्द्रिकाभिराश्रीयते ४ कैरविणीवनश्रीः ॥९९॥
(१) अमृतपूरितायां कन्दर्पस्य क्रीडार्थं रक्तरत्ननिर्मितायामोष्ठरूपवाप्याम् । (२) देव्याः । (३) स्फुरद्दन्तकान्तिभिः । (४) कुमुद्वतीकाननलक्ष्मीः ॥९९॥
हील० अमृतपूर्णायां स्मरकेल्यर्थं पद्मरागनिबद्धायामधरवाप्यां दन्तकान्तिभिः कुमुदिनीवन श्रीराप्ता ॥ १०३॥ हीसुं० 1 " स्मितश्रिया र मिश्रितदन्तकान्तिश्च कास्ति ४ गीर्वाणमृगेक्षणायाः ।
बन्दीकृता 'चन्द्रमसं विजित्य ज्योत्स्नास्य 'दारा वदनेन विद्मः ॥१००॥२
(१) हसितलक्ष्म्या । ( २ ) व्याप्त । ( ३ ) भाति । ( ४ ) शासनदेव्या: । ( ५ ) शशिनम् । (६) जित्वा । (७) चन्द्रस्य । (८) प्रिया । ( ९ ) विद्म इवार्थे ॥१००॥
हील० देव्या दन्तकान्तिः शुशुभे । उत्प्रेक्ष्यते । चन्द्रं जित्वाऽस्य दारा ज्योत्स्ना बन्दीकृता । इति वयं जानीमः
॥१०६ ॥
हीसुं० 'स्वर्भाणुभीरो 'रजनीचरिष्णोः कलङ्कभाजः क्षयिनः 'स्मि(सि ) तांशो: । ज्योत्स्ना किमुद्वेगवती 'यदास्यं भेजेऽ' पविघ्नं दशनांशुदम्भात् ॥ १०१ ॥
( १ ) राहोर्भीरुकस्य । ( २ ) निशायां चरणशीलस्य । ( ३ ) सकलङ्कस्य । ( ४ ) क्षयो- रोग: क्षीणता च । (५) चन्द्रात् । (६) खिन्ना । (७) देवीवदनम् । (८) निरन्तरायम् । ( ९ ) दन्तकान्तिमिषात् ॥ १०१ ॥
हील० चन्द्रात्खेदमाप्ता ज्योत्स्ना यदास्यं भेजे ||१०४ ||
हीसुं० यस्याः पृणन्निर्जरदृक्चकोरान्दन्तप्रभाभिर्वदनं 'दिदीपे । 'शरद्विनिद्रीकृत चन्द्रिकाभि विभावरीणामिव सार्वभौमः ॥१०२॥
( १ ) देव्याः । ( २ ) प्रीणयन् । (३) सुरनयनचकोरान् । (४) शुशुभे । ( ५ ) घनात्ययेन विकाशितकौमुदीभिः (६) रात्रिपतिः । " कन्दर्पेऽनल्पदर्पे विकिरति किरणान्शर्वरीसार्वभौमः " इति नाटकग्रन्थे ॥१०२॥
हील० दन्तकान्तिभिर्दृक्वकोरान्प्रीणयत् सद्वदनं दिदीपे । यथा चन्द्रः शरन्निर्मलीकृतज्योत्स्नाभिर्दीप्यते ॥ १२५॥ 1. हीलप्रतौ हीमु० च यथासङ्ख्यमतेषां १००-१०१-१०२ तमश्लोकानामेषोऽनुक्रमः १०६-१०४-१०५. १०५-१०३-१०५ 2. इति सस्मितदन्तकान्तिः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350