Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 293
________________ २८० 'श्री हीरसुन्दर' महाकाव्यम् देवीचिबुको भाति । मुखारविन्दस्थाया लक्ष्म्या जलक्रीडां कर्तुं क्रीडादीधिकेव ॥९७|| हीसुं० रेजेऽधरोऽस्या 'हरिमन्थकालात्प्रवासिनं "यन्मुखचन्द्रसूनुम् । 'हल्लेखभाजा मिलितुं प्रवालः पयोधिना ह्वातुमिव 'प्रयुक्तः ॥१४॥ (१) देव्याः । (२) कृष्णेन मेरुणा मन्थनसमयात् आरभ्य । (३) परदेशं गमनं यातम् । (४) देवीवदनमेव चन्द्रपुत्रम् । (५) उत्कण्ठावता । (६) विद्रुमः । समुद्रोत्पन्नत्वात् । अथ च प्रकृष्ट उक्तसन्देशकथकः बालकः । (७) समुद्रेण । तातत्वात् । (८) आकारयितुम् । (९) प्रहितः ॥१४॥ हील० रेजे०। अस्या अधरो रेजे । उत्प्रेक्ष्यते । विष्णुना यो मन्थो मन्थनं तस्य कालाद्गतं पुनरागतं चन्द्रं सुतं औत्सुक्यभाजाणवेन मिलितुं प्रकृष्टो बालः प्रेषितः ॥ ९८।। हीसुं० 'यदाननाङ्गीकृतविग्रहेण रदच्छदाङ्गः क्षणदाकरेण । "प्रियौषधेरङ्गभवः किमेष "प्रपाल्यते वप्ततया "प्रवालः ॥१५॥ (१) देवीवदनमेव स्वीकृतशरीरेण । (२) अधरकायः । (३) चन्द्रेण । (४) स्वप्रियाया औषधेः तनूभवः । चन्द्रस्यौषधीपतित्वात् प्रवालस्यौषधीजातत्वादौषध्याः पुत्रत्वमेवोपपन्नम् । (५) लाल्यते । (६) पितृत्वेन । (७) पल्लवः प्रकर्षेण बालश्च ॥१५॥ हील० यन्मुखचन्द्रेण स्वपल्या औषध्या उत्पन्नत्वात्] रदच्छदरूपः एषः किं प्रकृष्टो बालः सुतो लाल्यते ||९९॥ हीसुं० 'इदंमुखीभूत मवेत्य चन्द्रं बालं तदीयं "करचक्रवालम् । ५अन्वागतं प्राक्प्रणयादिवैतद्दन्तच्छदः स्फूर्तिमिति तस्याः ॥१६॥ (१) देवीवदनं जातम् । (२) ज्ञात्वा । (३) लघु । (४) कान्तिवृन्दम् । (५) पृष्ठे समेतम् । (६) चन्द्रावस्थास्नेहात् । (७) अधरः । (८) प्राप्नोति ॥१६॥ हील० एतदीयाधरो भाति । उत्प्रेक्ष्यते । एतस्या मुखरूपं जातं चन्द्रं ज्ञात्वा स्नेहात्पश्चादागतं बालकं किरणमण्डलम् । बालत्वात्किरणानामरुणत्वमपि युक्तमेवेति ॥१००॥ हीसुं० यद्दन्तपन्त्रेण विजीयमाना नष्टा प्रविष्टापि पयोधिमध्ये । रक्ताङ्कराजी हदि कृष्णवल्ली शल्यं किमद्यापि न पर्यहार्षीत् ॥१७॥ (१) देव्या अधरेण । (२) समुद्रजले । (३) विद्रुममाला । (४) परिहरति स्म ॥९७॥ हील० यद्द०। यदधरेणाधरिता विद्रुमपङ्क्तिः कृष्णवल्लीरूपं शल्यं त्यजति स्म ॥*१०१॥ हीसुं० 'बन्धूकबन्धूभवदेतदीयदंतच्छदे 'दन्तरुचिश्च'काशे । "निपेतुषी “कोकनदच्छदाङ्के शरत्सुधादीधिति कौमुदीव ॥९८॥ 1. पुत्रम् हीमु० । 2. रणेऽभिभूता हीसु० । 3. ०वालीशल्यं हील० । 4. कासे हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350