________________
२८०
'श्री हीरसुन्दर' महाकाव्यम् देवीचिबुको भाति । मुखारविन्दस्थाया लक्ष्म्या जलक्रीडां कर्तुं क्रीडादीधिकेव ॥९७|| हीसुं० रेजेऽधरोऽस्या 'हरिमन्थकालात्प्रवासिनं "यन्मुखचन्द्रसूनुम् ।
'हल्लेखभाजा मिलितुं प्रवालः पयोधिना ह्वातुमिव 'प्रयुक्तः ॥१४॥ (१) देव्याः । (२) कृष्णेन मेरुणा मन्थनसमयात् आरभ्य । (३) परदेशं गमनं यातम् । (४) देवीवदनमेव चन्द्रपुत्रम् । (५) उत्कण्ठावता । (६) विद्रुमः । समुद्रोत्पन्नत्वात् । अथ च प्रकृष्ट उक्तसन्देशकथकः बालकः । (७) समुद्रेण । तातत्वात् । (८) आकारयितुम् ।
(९) प्रहितः ॥१४॥ हील० रेजे०। अस्या अधरो रेजे । उत्प्रेक्ष्यते । विष्णुना यो मन्थो मन्थनं तस्य कालाद्गतं पुनरागतं चन्द्रं
सुतं औत्सुक्यभाजाणवेन मिलितुं प्रकृष्टो बालः प्रेषितः ॥ ९८।। हीसुं० 'यदाननाङ्गीकृतविग्रहेण रदच्छदाङ्गः क्षणदाकरेण ।
"प्रियौषधेरङ्गभवः किमेष "प्रपाल्यते वप्ततया "प्रवालः ॥१५॥ (१) देवीवदनमेव स्वीकृतशरीरेण । (२) अधरकायः । (३) चन्द्रेण । (४) स्वप्रियाया
औषधेः तनूभवः । चन्द्रस्यौषधीपतित्वात् प्रवालस्यौषधीजातत्वादौषध्याः पुत्रत्वमेवोपपन्नम् ।
(५) लाल्यते । (६) पितृत्वेन । (७) पल्लवः प्रकर्षेण बालश्च ॥१५॥ हील० यन्मुखचन्द्रेण स्वपल्या औषध्या उत्पन्नत्वात्] रदच्छदरूपः एषः किं प्रकृष्टो बालः सुतो लाल्यते
||९९॥ हीसुं० 'इदंमुखीभूत मवेत्य चन्द्रं बालं तदीयं "करचक्रवालम् ।
५अन्वागतं प्राक्प्रणयादिवैतद्दन्तच्छदः स्फूर्तिमिति तस्याः ॥१६॥ (१) देवीवदनं जातम् । (२) ज्ञात्वा । (३) लघु । (४) कान्तिवृन्दम् । (५) पृष्ठे समेतम् ।
(६) चन्द्रावस्थास्नेहात् । (७) अधरः । (८) प्राप्नोति ॥१६॥ हील० एतदीयाधरो भाति । उत्प्रेक्ष्यते । एतस्या मुखरूपं जातं चन्द्रं ज्ञात्वा स्नेहात्पश्चादागतं बालकं
किरणमण्डलम् । बालत्वात्किरणानामरुणत्वमपि युक्तमेवेति ॥१००॥ हीसुं० यद्दन्तपन्त्रेण विजीयमाना नष्टा प्रविष्टापि पयोधिमध्ये ।
रक्ताङ्कराजी हदि कृष्णवल्ली शल्यं किमद्यापि न पर्यहार्षीत् ॥१७॥
(१) देव्या अधरेण । (२) समुद्रजले । (३) विद्रुममाला । (४) परिहरति स्म ॥९७॥ हील० यद्द०। यदधरेणाधरिता विद्रुमपङ्क्तिः कृष्णवल्लीरूपं शल्यं त्यजति स्म ॥*१०१॥ हीसुं० 'बन्धूकबन्धूभवदेतदीयदंतच्छदे 'दन्तरुचिश्च'काशे ।
"निपेतुषी “कोकनदच्छदाङ्के शरत्सुधादीधिति कौमुदीव ॥९८॥ 1. पुत्रम् हीमु० । 2. रणेऽभिभूता हीसु० । 3. ०वालीशल्यं हील० । 4. कासे हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org