________________
२८४
'श्री हीरसुन्दर' महाकाव्यम् हील० दन्तपङ्किराभात् । उत्प्रेक्ष्यते । पीयूषं क्षीणं दृष्ट्वा चन्द्रेण तदेवानाययितुं जी(जि)ह्वाहूदे ब्राह्मणश्रेणिः
प्रेषिता ॥११४॥ हीसुं० जाने 'यदास्यं 'सरसी सुधाया विजृम्भिजिह्वारुणपद्मपत्रम् ।
४श्रेणीभवन्तः पुलिनाऽवतंसा हंसद्विजाः स्युः कथम न्यथा स्याम् ॥१११॥ (१) देवीमुखम् । (२) अमृततटाकः । (३) विकसनशीलं रसनैव रक्तकमलदलं यत्र । (४) पङ्क्त्या तिष्ठन्तः । (५) जलोज्झितप्रदेशे तटे च । (६) शेखरीभूताः । (७)
हंसवदुज्ज्वलादन्ता हंसपक्षिणो वा । (८) अन्येन प्रकारेण । (९) सुधासरस्याम् ।। १११॥ हील० जाने य० । अहमेवं मन्ये-यदास्यं पीयूषसरसी । अन्यथा तटशेखरीभूताः हंसपक्षिणो वा हंसवदुज्ज्वला
दन्ताः कथं भवेयुः ॥११५॥ हीसुं० वद्धिष्णुदेवीहृदयानुरागवारांनिधेविदुमकन्दलीव ।
३कंठत्रिरेखेण मुखे गृहीता पुपोष भूषां रसना दसीया ॥११२॥ (१) वर्धनशीलो यो देव्या मनसि । हृदयं-मनो वक्षश्च । रागस्य एव समुद्रस्तस्य । (२) प्रवालनवाङ्करः । "कन्दली तूपरागेऽपि कलापे च नवाङ्करे । मृगजातिप्रभेदे चे"ति
लिङ्गानुशासनचूर्णौ । (३) कण्ठरूपशवेन । (४) देवीसम्बन्धिनी । (५) जिह्वा ॥११॥ हील० जी(जि)ह्वा भाति । उत्प्रेक्ष्यते । स्नेहार्णवाद्विद्रुमकन्दली कण्ठशकेन मुखे गृहीता ॥११६।। हीसं० जडीभवन्ती रिपनि ये श्यद्वाचा जिता हीविधुरा पविपञ्ची ।
पयियासया शैवलिनीशपारे तुम्बद्वयं किं "बिभराम्बभूव ॥११३॥ (१) प्रतिकर्तुमशक्नुवन्तीत्यर्थः । (२) वैरिपराभवनाय । (३) देवीवाण्या । (४) लज्जाव्याकुला। (५) वीणा । (६) गन्तुमिच्छया । (७) समुद्रस्य परे तीरे । (८)
धुतवती ॥११३॥ हील० यद्वाण्या जिता स्वास्यं दर्शयितुमशक्नुवन्ती वीणार्णवपारे गन्तुम् । उत्प्रेक्ष्यते । तुम्बे बिभर्ति स्म
।। ११७॥ हीसुं० 'स्त्र(श्र)वःसुधायै 'जगतां यदीयवाचे पिकेन "स्पृहयालुनेव ।
५अभ्यस्यते ६भैक्ष्यभुजा तरुभ्योऽ निशं वने पञ्चमगीति सच्चैः ॥११४॥ (१) कर्णयोरमृतभूतायै । पीयूषतोषका ? )सदृशायै । (२) जगज्जनानाम् । (३) देवीगिरे। (४) इच्छनशीलेन । (५) अभ्यास: क्रियते । (६) भिक्षासमूहाहारेण । (७) वृक्षेभ्यः
सकाशात् । (८) निरन्तरम् । (९) बाढस्वरेण ॥११४॥ हील० श्रवः । कर्णामृतरूपायै वाण्यै वाञ्छता । अतो वृक्षेभ्यो मञ्जरीकलिकादिभुजा कोकिलेन 1. इति रसना हील० । 2. भैक्ष. हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org