Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२२९
षष्ठः सर्गः ॥ वाक्चातुर्यात्सरस्वत्या सार्द्धमुपमीयते ॥१६४॥ हील० कंसारे० । भाषितेशया सरस्वत्योपमीयते । तादृश्या तया स स्वप्नः स्वभर्तुः पुरो भाषितः । यथा
रुक्मिण्या श्रीपतेः पुरो नक्तदृष्टः स्वप्न उक्तः ॥१६४।। हीसुं० स विचार्य 'विचारज्ञोऽङ्गना मिदमजीगदत् ।
सूनुः सिंह इवाधृष्यो भविता तव भामिनि ! ॥१६५॥ (१) विमृश्य । (२) विचारचतुरः । (३) स्वपत्नीम् । (४) इदं वक्ष्यमाणम् । (५)
कथयति स्म । (६) अनाकलनीयः ॥१६५॥ हील० स कमानामव्यवहारी प्रियामिति कथयति स्म । हे वणिनि ! तव सिंहतुल्यः पुत्रो भविता ॥१६५॥ हीसुं० 'गन्धसिन्धुरराजस्य 'वशेवालसगामिनी ।
अन्तर्वत्नी ततः पत्नी "महेभ्यस्य 'बभूवुषी ॥१६६॥ (१) मदमत्तगजेन्द्रस्य । (२) वशा स्त्री । एतावता हस्तिनी । यद्यपि वशाशब्दो हस्तिन्यां प्रवर्त्तते तथापि बाहुल्यान्नार्यामेव प्रयुज्यमानत्वाद्गन्धसिन्धुरराजस्य वशा हस्तिनी । वशा स्त्रीगजयोषितो "इत्यनेकार्थः । (३) गुर्विणी । (४) महेभ्यपत्नी कोडिमदेवी । (५) भूता
॥१६६॥ हील०. ततो हस्तिनीव मन्थरगामिनी इभ्यस्त्री गर्भवती सञ्जायते स्म । “वशा नार्यां वन्ध्यगव्यां हस्तिन्यां
दुहितर्यपि । वेश्यायां०" इत्यनेकार्थः । वशाशब्दो नार्यां बाहुल्यात्समग्रपदोपादनं न केवलम् ॥१६६।। हीसुं० समयेऽथ 'तया रत्या "ब्रह्मसूरिव 'नन्दनः ।
सुषुवे "सुषमास्तोमः प्रोद्भवन्मूर्तिमानिव ॥१६७॥ (१) कोडिमदेव्या । (२) सुतः । (३) कन्दर्पपल्या । (४) अनिरुद्ध इव । (५)
सातिशायिशोभासमूह इव । (६) प्रकटीभवन् ॥१६७॥ हील० सम० । यथा स्मरपत्न्या अनिरुद्धनामा नन्दनः प्रसूतः तथा तया सुतः प्रसूत । उत्प्रेक्ष्यते । मूर्तः
शोभातिशयः ॥१६७॥ 'तनूजन्माननज्योत्स्नानाथे रेलवणिमामृतम् । चकोरेणेव पिबता ननृते "पितृचक्षुषा ॥१६८॥ (१) पुत्रमुखचन्द्रे । (२) लावण्यसुधाम् । (३) सादरं विलोकयता । ( ४ ) कमानयनेन
॥१६८॥ हील० सुतवदनचन्द्रे लावण्यसुधां पिबता सादरं विलोकयता पितृनेत्रेण निर्तितम् । यथा चकोरेण नृत्यते
॥१६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350