Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२६४
'श्री हीरसुन्दर' महाकाव्यम् (१) देव्याः पादावेव भूपौ । (२) परि समन्तानिर्मलः घुटयोरधः प्रदेशो ययोः । राजा तु निर्दोषपाश्चात्यराजः । “शुद्धपाणिरयान्वित" इति रघुवंशे । (३) जित्वा । (४) गमनेन प्रयाणेन च । (५) समस्तमरालान् प्रकृष्टनृपांश्च । (६) ऊर्ध्वं अर्थात्स्वर्गे उच्चैः। (७) रुचीनां कान्तीनां स्फुरणकपटेन । (८) जेतुमिच्छू । (९) प्रस्थानं कर्तुमनसाविव । (१०) ऐरावणं देवप्रधानं शक्रमित्यर्थः । “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः सिंहशार्दूलनागाद्या"
इति हैम्याम् । तथा-"कारागृहे निर्जितवासवेने" ति रघुवंशे इति ॥२७॥ हील० यत्पा० । शुद्धो लाञ्छनरहितः पाणिर्घटयोरध:प्रदेशो ययौः । तथा शुद्धो विरोधादिरहितः पाणिः
पाश्चात्यः नागं ऐरावणम् ॥*२८॥ हीसुं० 'प्रसादकान्ती दधती 'सुवर्णालङ्कारिणी ३रम्यतमक्रमा च ।
"संश्लेषदक्षाऽ प्रतिमोपमानश्रीः श्लोकमालेव सुरी चकासे॥२८॥ (१) प्रसन्नतां शोभां च । झगित्यवबोधगोचरत्वं प्रसादगुणः । दीप्तरसत्वं च कान्तिः । (२) हेमभूषणवती । शोभनाक्षरैरूपोपमोत्प्रेक्षाद्यैरलङ्कारैश्च युक्ताः । (३) मनोज्ञचरणा अनुक्रमा वा । (४) आलिङ्गनचतुरा तथा शब्दगुणार्थगुणशब्दालङ्कारार्थलङ्काररूपः समीचीनः श्लेषस्तंत्र पटवी । (५) न विद्यते प्रतिमा सादृश्यं यस्याः ।" न तन्मुखस्य प्रतिमा चराचरे" इति नैषधे। तादृशी उपमा तस्य श्रीर्यस्यास्तथा असाधारणा उपमानैः कृत्वा शोभा यत्र । (६)
अनुष्टुप्पङ्क्तिरिव ॥२८॥ हील. प्रसा० । अनुष्टुभां पङ्क्तिरिव शासनाधिष्ठात्री शुशुभे । किंभूता ?। प्रसन्नभावं कान्ति वपुर्दीप्ति
तथा झगित्यर्थावबोधगोचरत्वं प्रसादगुणस्तथा दीप्तरसत्वं कान्तिस्ते दधाना । पुनः किंभूता ?। कनकभूषणाञ्चिता वा शोभनाक्षरा । पुनरलङ्कारवती । पुनः शस्तानुक्रमा ।पुनरालिङ्गने वा सम्यश्लेषस्तत्र पट्वी । पुनरसाधारणा। पुनरुपमानैरुपलक्षणादुत्प्रेक्षाद्यैः श्रीलक्ष्मी शोभा यस्यां पा
||२७||
हीसुं० 'जम्भद्विषत्कुम्भिपराभविन्या ययाभिभूति गमितः "स्वगत्या ।
किं 'हंसकस्तां चरणारविन्दे तस्थौ "प्रसत्तेविषयीचिकीर्षुः ॥२९॥ (१) ऐरावणविजयिन्या । (२) पराभवम् । (३) प्रापितः । (४) निजयानेन । (५) हंस एव हंसकः । स्वार्थे कः । नूपुरं च । (६) स्थितः । (७) पदकमले । (८) प्रा( प्र )सादगोचरतां
नेतुमिच्छुः ॥ २९ ॥ हील० ययाभिभूतो हंस एव हंसको नूपुरः सेवायै स्थितः ॥२९॥ हीसुं० 'स्वजिह्मयानेन विगानितः सन्नाखण्डलः कुण्डलिनामिवैताम् ।
'सिञ्जानमञ्जीरविनिर्मिताङ्गः प्रसादय त्यहिपयोजलग्नः ॥३०॥ 1. इति देवीचरणाः हील०। 2. इति देवीचरणनपूरम् । हीला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350