Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 282
________________ २६९ अष्टमः सर्गः ॥ भीत्या ।(५) बौकिता । (६) मेखला । (७) स्वस्य पल्यङ्कभूतस्य समुद्रस्य मौक्तिकरत्नैर्भूषिता ॥४८॥ हील. अस्या० । अस्याः कटिहरिजैत्रा, अतो मां हरि-सिंहं विष्णुं वा मा जयं कुरुतात् इति भयाद्विष्णुना शय्यारूपसमुद्रस्य मुक्ताद्यङ्किता काञ्ची ढौकिता ॥४८।। हीसुं० उमोपयामे 'पुनराप्तजन्म शिशुस्मरस्येन्द्रगुरो रुपान्ते । अध्येतुकामस्य 'कलास्त्रिदश्या: "पृष्ठस्थली “हाटकपट्टिकेव ॥४९॥ (१) पार्वतीपाणिग्रहणसमये । (२) द्वितीयवारं प्राप्तोत्पत्तेः लब्धजन्मनः । अत एव बालकल्य कामस्य । (३) बृहस्पतेः । "ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्ये" ति नैषधे । इन्द्रगुरुर्वाचस्पतिः । (४) पावें । (५) लिखितगणितप्रमुखाः शकुनरुतान्ता द्वासप्ततिः । (६) देव्याः । (७) तनोश्चरमप्रदेशः । (८) स्वर्णपट्टिका ॥४९॥ हील० पृष्ठं भाति । उत्प्रेक्ष्यते । उमोद्वाहे प्राप्तावतारस्य अतो बालस्य स्मरस्य पुरोऽध्येतुकामस्य सुवर्णपट्टिका ॥४९॥ हीसुं० 'सङ्क्रान्तवेणीग्रथितप्रसूनपङ्क्तिर्बभौ पृष्ठतटे तदीये । संवेशनश्रान्तशयालुकामकृतेऽर्कतूली किमु निम्नमध्या ॥५०॥ (१) प्रतिबिम्बिता केशपाशे सन्दुब्धकुसुममाला । (२) सम्भोगेन श्रमं प्राप्तस्यात एव शयनशीलस्य कामस्यार्थे । (३) शय्याविशेषः । (४) गम्भीरमध्या ॥५०॥ हील० पृष्ठे सङ्क्रान्ता पुष्पपङ्क्तिर्भाति । उत्प्रेक्ष्यते । रतश्रमात्सुप्तस्य स्मरस्यार्थं शय्या ॥५॥ हीसुं० आवर्तविभ्राजितरङ्गितान्तर्योतिःपयःपूरितनाभिरस्याः । समं विशाभ्यां स्मरसिन्धुरस्य स्वैरं परिरंसोः स्फुरतीव शोणः ॥५१॥ (१) भ्रमरकाकृतिविशेषः । पयसां भ्रमश्चावर्तेन शोभनशीलैः कल्लोलाकारीभूतैः कान्तिरूपजलैः भृता नाभिः । (२) रतिप्रीतिकान्ताभ्यां हस्तिनीभ्यां च । "वशा कान्ताकरिण्योः । (३) कामगजस्य । (४) स्वेच्छया । (५) रन्तुमिच्छोः । (६) हृदः ॥५१॥ हील० आवर्तेण(न) भ्रमरकेण पयः सम्भ्रमेण वा शोभितं तरङ्गितं चान्तर्मध्यं येषां तादृशानि ज्योतींषि कान्तयस्तान्येव जलानि तैः पूरिता नाभिर्भाति । उत्प्रेक्ष्यते । रतिप्रीतिभ्यां युक्तस्य स्मरगजस्य हृदः ॥५१॥ हीसुं० प्रसारिशोचिर्मकरन्दसान्द्रा परिस्फुरत्कामुकदृग्द्विरेफा । अनन्यलावण्यजले यदीयनाभिर्बभौ जृम्भितपद्मिनीव ॥५२॥ 1. इति पृष्ठप्रदेश: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350