Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२६८
'श्री हीरसुन्दर' महाकाव्यम् (१) ज्वालितम् । (२) ईश्वरेण । (३) नयनयोर्गोचरं कृत्वा । (४) कामम् । (५)
स्वकान्तम् । (६) शम्भुः। (७) शासनदेव्या कटेरग्रभागः । (८) कृतम् ॥४४॥ हील० ईश्वरेण स्मरं भस्मीकृतं दृष्ट्वा एष मां मा हन्तादितीव हतोर्गुप्तगृहं जघनं कामपत्न्या कृतम् ॥४४।। हीसुं० 'तीर्थाधिभर्तुर्म तदेवतायाश्चकास्ति लक्ष्म्या प्रतिमो नितम्बः ।
मोघीकृते'धू "मखजिद्विषन्तं जेतुं धृतं 'चक्रमिव स्मरेण ॥४५॥ (१) जिनस्य । (२) शासनदेव्याः ।(३) शोभया ।(४) असाधारणः । (५) कटीपृष्ठप्रदेशः।
(६) निष्फलीकृतबाणम् । (७) ईश्वरम् । (८) आयुधविशेषः ॥४५॥ हील. तीर्था० । शासनदेव्याः शोभया असाधारणो नितम्बः शोभते । उत्प्रेक्ष्यते । मोघीकृता बाणा येन
तादृशमीशं जेतुं धृतं चक्रम् ।।४५।। हीसुं० 'यदङ्गरङ्गन्नवराजधानीनिवासिनः श्रीसुतभूविवोढुः ।
स्फुटीभवत्पुष्परथस्य शङ्के प्रथाङ्गमेत त्रिदशीनितम्बः ॥४६॥ (१) शासनदेवीशरीरमेव जङ्गमः स्कन्धावारस्तत्र वसनशीलस्य । (२) स्मरराजस्य । (३) प्रकटं जायमानम् । (४) क्रीडार्थरथस्य । (५) चक्रम् । (६) इदंदेव्याः कट्याः पश्चात्तनप्रदेशः
॥४६॥ हील. त्रिदशीनितम्बः शोभते । उत्प्रेक्ष्यते । यदङ्गराजधानीवसितस्य मदनस्य शताङ्गस्यैतच्चक्रम् ॥४॥ हीसुं० एतत्कलत्रस्य हरे:२ कलत्रजैत्रस्य सौभाग्य मुदीर्यते किम् ।
गाङ्गेयमप्या तनुते स्म 'काञ्चीनिभान्निजालिङ्गनलालसं १९यत् ॥४७॥ (१) देव्याः कट्याः । जायाया इत्यप्यर्थध्वनिः । (२) केसरिकटीजयनशीलस्य । कृष्णपल्या लक्ष्या जघ( य )नशीलस्येत्यप्यर्थध्वनिः । (३) सुभगतां सौन्दर्यम् । (४) किमित्यनिर्वचनीयमाहात्म्यम् । (५) कथ्यते । (६) सुवर्णं-गङ्गातनयं भीष्मं च । (७) अपि शब्देन ब्रह्मचारित्वेन स्त्रीविषयविमुखोऽपीति लक्ष्यते । (८) चकार । (९) मेखलाकपटात् । (१०) स्वकीयस्यालिङ्गने जातदोहदं लोलुपं वा । अमरस्तु- "इच्छातिरेकस्तु लालसा" । (११)
यस्मात्कारणात् ॥४७॥ हील. विष्णोः सिंहस्य वा कटीजैत्रस्यैतस्याः कट्याश्चातुर्यं किं कथ्यते, यत् रसनादम्भाभीष्ममपि काञ्चनमपि
वा स्वस्यालिङ्गने लोलं कुरुते स्म ॥४७॥ हीसु० अस्याः 'कलत्रं 'हरिजित्वरं यन्मा मां हरिं तज्जयता द्भियेति ।
अढौकि 'काञ्ची कनकस्य तेन शय्याब्धिमुक्तामणिमण्डितेव ॥४८॥
(१) कटिः । (२) पञ्चाननजयनशीलम् । (३) हरिरिति एकाभिधानेन कृष्णं नाम्ना । (४) 1. ०तेषूम० हीमु० । 2. इति नितम्ब: हील० । 3. इति कटिः हील०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350