SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६८ 'श्री हीरसुन्दर' महाकाव्यम् (१) ज्वालितम् । (२) ईश्वरेण । (३) नयनयोर्गोचरं कृत्वा । (४) कामम् । (५) स्वकान्तम् । (६) शम्भुः। (७) शासनदेव्या कटेरग्रभागः । (८) कृतम् ॥४४॥ हील० ईश्वरेण स्मरं भस्मीकृतं दृष्ट्वा एष मां मा हन्तादितीव हतोर्गुप्तगृहं जघनं कामपत्न्या कृतम् ॥४४।। हीसुं० 'तीर्थाधिभर्तुर्म तदेवतायाश्चकास्ति लक्ष्म्या प्रतिमो नितम्बः । मोघीकृते'धू "मखजिद्विषन्तं जेतुं धृतं 'चक्रमिव स्मरेण ॥४५॥ (१) जिनस्य । (२) शासनदेव्याः ।(३) शोभया ।(४) असाधारणः । (५) कटीपृष्ठप्रदेशः। (६) निष्फलीकृतबाणम् । (७) ईश्वरम् । (८) आयुधविशेषः ॥४५॥ हील. तीर्था० । शासनदेव्याः शोभया असाधारणो नितम्बः शोभते । उत्प्रेक्ष्यते । मोघीकृता बाणा येन तादृशमीशं जेतुं धृतं चक्रम् ।।४५।। हीसुं० 'यदङ्गरङ्गन्नवराजधानीनिवासिनः श्रीसुतभूविवोढुः । स्फुटीभवत्पुष्परथस्य शङ्के प्रथाङ्गमेत त्रिदशीनितम्बः ॥४६॥ (१) शासनदेवीशरीरमेव जङ्गमः स्कन्धावारस्तत्र वसनशीलस्य । (२) स्मरराजस्य । (३) प्रकटं जायमानम् । (४) क्रीडार्थरथस्य । (५) चक्रम् । (६) इदंदेव्याः कट्याः पश्चात्तनप्रदेशः ॥४६॥ हील. त्रिदशीनितम्बः शोभते । उत्प्रेक्ष्यते । यदङ्गराजधानीवसितस्य मदनस्य शताङ्गस्यैतच्चक्रम् ॥४॥ हीसुं० एतत्कलत्रस्य हरे:२ कलत्रजैत्रस्य सौभाग्य मुदीर्यते किम् । गाङ्गेयमप्या तनुते स्म 'काञ्चीनिभान्निजालिङ्गनलालसं १९यत् ॥४७॥ (१) देव्याः कट्याः । जायाया इत्यप्यर्थध्वनिः । (२) केसरिकटीजयनशीलस्य । कृष्णपल्या लक्ष्या जघ( य )नशीलस्येत्यप्यर्थध्वनिः । (३) सुभगतां सौन्दर्यम् । (४) किमित्यनिर्वचनीयमाहात्म्यम् । (५) कथ्यते । (६) सुवर्णं-गङ्गातनयं भीष्मं च । (७) अपि शब्देन ब्रह्मचारित्वेन स्त्रीविषयविमुखोऽपीति लक्ष्यते । (८) चकार । (९) मेखलाकपटात् । (१०) स्वकीयस्यालिङ्गने जातदोहदं लोलुपं वा । अमरस्तु- "इच्छातिरेकस्तु लालसा" । (११) यस्मात्कारणात् ॥४७॥ हील. विष्णोः सिंहस्य वा कटीजैत्रस्यैतस्याः कट्याश्चातुर्यं किं कथ्यते, यत् रसनादम्भाभीष्ममपि काञ्चनमपि वा स्वस्यालिङ्गने लोलं कुरुते स्म ॥४७॥ हीसु० अस्याः 'कलत्रं 'हरिजित्वरं यन्मा मां हरिं तज्जयता द्भियेति । अढौकि 'काञ्ची कनकस्य तेन शय्याब्धिमुक्तामणिमण्डितेव ॥४८॥ (१) कटिः । (२) पञ्चाननजयनशीलम् । (३) हरिरिति एकाभिधानेन कृष्णं नाम्ना । (४) 1. ०तेषूम० हीमु० । 2. इति नितम्ब: हील० । 3. इति कटिः हील० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy