Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 275
________________ २६२ 'श्री हीरसुन्दर' महाकाव्यम् (१) या देव्येवाश्रयो येषां ते यदाश्रयाः । न यदाश्रया यदाश्रया भूत्वेति । (२) उद्यद्भानवः । (३) नखा एव काया, तान् भजन्तीति ।(४) प्रणमनशीलसुराङ्गनावेणीप्रतिबिम्बकपटेनाश्रित खड्गाः सन्ति ॥१९॥ हील० यदा० । नतसुरीवेणि(णी)दम्भात्स्वीकृतखड्गा राहुं हन्तुमुद्यता नखरूपाष्कि(: किं) बालसूर्याः ॥१९॥ हीसुं० 'इदंपदीभूय भवान्तरेऽपि लौहित्यलक्षात्क लितानुरागाम् । पद्मद्वयीं प्रेक्ष्य 'नखाङ्गबालारुणा इवैतन्मिलनार्थमी युः ॥२०॥ (१) अस्याः पदौ भूत्वा । (२) अपरस्मिन्जन्मन्यपि । (३) लौहित्यच्छलात् । (४) धृतरागाम् । (५) नखरूपशरीरा उद्यद्भास्कराः । (६) एतस्याः पद्मद्वय्याः अर्थाद्वन्धुत्वेन मिलनार्थम् । (७) आगताः ॥२०॥ हील० भवान्तरेऽप्येतस्याश्चरणीभूत्वाऽपि स्नेहाकुलां कजद्वयीं दृष्ट्वा बालारुणा मिलितुमेताष्कि(: कि)मु ॥२०॥ हीसुं० 'प्रपेदुषीं यत्पदतां पयोजद्वयीं विभाव्यार्भकशीतभासः । "निजानुरज्यन्मनसं "प्रणेतुं नखीबभूवुः किमुतत्रिदश्याः ॥२१॥ (१) प्राप्ताम् । (२) शासनदेवीचरणत्वम् । (३) बालमृगाङ्काः । “राकामृगाङ्गाः सम्भूय विभान्ति शरणागता" इति पाण्डवचरित्रे । इति कविसमये चन्द्रबाहुल्यम् । (४) स्वेषु अनुरक्तीभवच्चित्ताम् । “चकास्ति रज्यच्छविरुज्ज्हिान" इति नैषधे । (५) कर्तुम । (६) तस्या देव्याः ॥२१॥ हील० यच्चरणरूपां कजद्वयीं प्रेक्ष्य चन्द्राः स्वस्मिन्रागकलितां तां कर्तुम् । उत्प्रेक्ष्यते । नखभूयं गताः ॥२१॥ हीसुं० 'सौन्दर्यपाथःप्लवपादपद्माकरेऽङ्गलीनालजुषोऽनिमिष्याः । "कामाङ्कुशा: 'शोणसरोजराज्यो ज्योतिः'परागोपचिता इवाभुः ॥२२॥ (१) सुन्दरतैव पयःपूरो यत्र तादृशे चरणरूपे सरसि । पदे आकृतिकमलानां सद्भावात्कमलाकरत्वम् । (२) अङ्गल्यः पदशाखा एव मृणालानि भजन्ते । (३) देव्याः । (४) नखाः । (५) कोकनदपङ्क्तयः । (६) कान्तिरूपपौष्पव्याप्ताः । (७) शुशुभिरे ॥२२॥ हील० देव्याः सौन्दर्यमेव पयःपूरो यत्र, तादृशे चरणसरसि अङ्गुलीनालवन्त्यो नखरूपाः कोकनदपङ्क्तयः ॥२२॥ 1. तिर्मरन्दोप० हीमु० । 2. इवाबभः हीमु० दृश्यते । तच्च छन्दोभङ्गकारित्वादयोग्यमाभाति । 3. इति पदनखाः हील.। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350