Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
॥१४॥
अष्टमः सर्गः ॥
(७) जज्ञे ॥१४॥
हील० अनङ्गास्थानभूतैर्यदङ्गैजिता राजीविनी तपस्विनीव वने वने जले वा वसन्ती सती दर्भे शयालुर्जाता
हीसुं० 'अगण्यनैपुण्यमुखान्नि यन्त्र्य संरक्षितान्प्रेक्ष्य गुणांस्त्रि दृश्या । 'स्वयन्त्रणोद्भूतभयातिरेकात्तस्याः 'प्रणेशे किम शेषदोषैः ||१५||
२६१
(१) अतिशायि गणयितुमशक्यं वा दाक्षिण्यं तदेवादौ येषाम् । (२) बद्ध्वा । (३) शासनदेवतया । ( ४ ) निजबन्धनजातभयातिशयात् । (५) प्रणष्टम् । ( ६ ) समस्तापगुणैः
॥१५॥
हील० गुणान् बद्ध्वा रक्षितान् दृष्ट्वा स्वबन्धभयाद्देव्याः सकाशात् दोषैष्कि (: कि) मितीव प्रणष्टम् ||१५|| हीसुं० 25 जिनेशितुः शासनदेवतायाः पादारविन्देऽरुणिमा दिदीपे ।
*प्रणेमुषीनां( णां ) 'दिविषद्वधूनां सीमन्तसिन्दूरमिवात्र' लग्नम् ॥१६॥
( १ ) महावीरशासनदेव्याः । (२) चरणकमले । ( ३ ) रागः । (४) प्रणमनशीलानाम् । (५) देवीनाम् । ( ६ ) केशवर्त्मनः शृङ्गारभूषणाम् । (७) चरणे ॥१६॥ हील० जिनशासनदेव्याश्चरणकजे पाटलिमा भाति । उत्प्रेक्ष्यते । प्रणतसुरीणां सीमन्तसिन्दूरं लग्नम् ॥१६ ॥ हीसुं० 'यत्पादपद्मेन पराजितेन विजृम्भमाणारुणवारिजेन ।
शुश्रूषणाया 'रुणिमा 'तदङ्के 'शङ्के डुढौकेऽरुणलक्ष्मिलक्षात् ॥१७॥ ३
( १ ) शासनदेवताचरणकमलेन । (२) स्मेरत्ताम्रकमलेन । (३) आराधनाय । सेवनाय । ( ४ ) स्वरक्तत्वम् । ( ५ ) चरणोत्सङ्गे । ( ६ ) अहमेवं मन्ये । ( ७ ) रक्तकान्तिकपटात् ॥१७ ॥ हील० यत्पाद० । अहमेवं मन्ये यद्यच्चरणजितकजेन सेवायै रक्तता मुक्ता ॥१७॥
हीसुं० यस्याः 'स्फुरत्कान्तिविकाशिताशाः कामाङ्कुशा दिद्युतिरे पदाब्जे । 'इदंमुखाम्भोजविनिर्जितेन राज्ञेव रत्नान्युपदीकृतानि ॥१८॥
६
(१) दीप्यमानदीप्तिद्योतितदिशः । ( २ ) नखाः । ( ३ ) बभुः । ( ४ ) शासनदेवीवदनपद्माभिभूतेन । (५) चन्द्रेण नृपेण च । ( ६ ) तस्य मणीनां सद्भावात् ढौकनं ढौकितानि
॥ १८ ॥
Jain Education International
हील० तस्या नखा अभुः । उत्प्रेक्ष्यते । पराजितेन चन्द्रेण रत्नानि ढौकितानि ॥ १८॥
हीसुं० 'यदाश्रयीभूय किमर्भसूराः राहुं निहन्तुं ग्नखराङ्गभाजः ।
'प्रणम्रगीर्वाणवधूप्रवेणीच्छायाच्छलाङ्गीकृतचन्द्रहासाः ॥ १९ ॥
1. इति शासनदेवतासाधारणसवार्रङ्गवर्णनम् हील० । 2. अथ पृथगङ्गवर्णानारम्भः हील० । 3. इति पादतलपाटलिमा हील० ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350