________________
२६२
'श्री हीरसुन्दर' महाकाव्यम् (१) या देव्येवाश्रयो येषां ते यदाश्रयाः । न यदाश्रया यदाश्रया भूत्वेति । (२) उद्यद्भानवः । (३) नखा एव काया, तान् भजन्तीति ।(४) प्रणमनशीलसुराङ्गनावेणीप्रतिबिम्बकपटेनाश्रित
खड्गाः सन्ति ॥१९॥ हील० यदा० । नतसुरीवेणि(णी)दम्भात्स्वीकृतखड्गा राहुं हन्तुमुद्यता नखरूपाष्कि(: किं) बालसूर्याः ॥१९॥ हीसुं० 'इदंपदीभूय भवान्तरेऽपि लौहित्यलक्षात्क लितानुरागाम् ।
पद्मद्वयीं प्रेक्ष्य 'नखाङ्गबालारुणा इवैतन्मिलनार्थमी युः ॥२०॥ (१) अस्याः पदौ भूत्वा । (२) अपरस्मिन्जन्मन्यपि । (३) लौहित्यच्छलात् । (४) धृतरागाम् । (५) नखरूपशरीरा उद्यद्भास्कराः । (६) एतस्याः पद्मद्वय्याः अर्थाद्वन्धुत्वेन
मिलनार्थम् । (७) आगताः ॥२०॥ हील० भवान्तरेऽप्येतस्याश्चरणीभूत्वाऽपि स्नेहाकुलां कजद्वयीं दृष्ट्वा बालारुणा मिलितुमेताष्कि(: कि)मु
॥२०॥ हीसुं० 'प्रपेदुषीं यत्पदतां पयोजद्वयीं विभाव्यार्भकशीतभासः ।
"निजानुरज्यन्मनसं "प्रणेतुं नखीबभूवुः किमुतत्रिदश्याः ॥२१॥ (१) प्राप्ताम् । (२) शासनदेवीचरणत्वम् । (३) बालमृगाङ्काः । “राकामृगाङ्गाः सम्भूय विभान्ति शरणागता" इति पाण्डवचरित्रे । इति कविसमये चन्द्रबाहुल्यम् । (४) स्वेषु अनुरक्तीभवच्चित्ताम् । “चकास्ति रज्यच्छविरुज्ज्हिान" इति नैषधे । (५) कर्तुम । (६)
तस्या देव्याः ॥२१॥ हील० यच्चरणरूपां कजद्वयीं प्रेक्ष्य चन्द्राः स्वस्मिन्रागकलितां तां कर्तुम् । उत्प्रेक्ष्यते । नखभूयं गताः
॥२१॥ हीसुं० 'सौन्दर्यपाथःप्लवपादपद्माकरेऽङ्गलीनालजुषोऽनिमिष्याः ।
"कामाङ्कुशा: 'शोणसरोजराज्यो ज्योतिः'परागोपचिता इवाभुः ॥२२॥ (१) सुन्दरतैव पयःपूरो यत्र तादृशे चरणरूपे सरसि । पदे आकृतिकमलानां सद्भावात्कमलाकरत्वम् । (२) अङ्गल्यः पदशाखा एव मृणालानि भजन्ते । (३) देव्याः । (४) नखाः ।
(५) कोकनदपङ्क्तयः । (६) कान्तिरूपपौष्पव्याप्ताः । (७) शुशुभिरे ॥२२॥ हील० देव्याः सौन्दर्यमेव पयःपूरो यत्र, तादृशे चरणसरसि अङ्गुलीनालवन्त्यो नखरूपाः कोकनदपङ्क्तयः
॥२२॥
1. तिर्मरन्दोप० हीमु० । 2. इवाबभः हीमु० दृश्यते । तच्च छन्दोभङ्गकारित्वादयोग्यमाभाति । 3. इति पदनखाः हील.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org