________________
२६३
हीसुं०
अष्टमः सर्गः ॥ हीसुं० नखोल्लसत्पल्लवशालमानैर्न म्रामरीनेत्रमिलद्विरेफैः ।
शाखाविशेषैः *पदशाखिनः किं 'तदङ्गुलीभिभ्रियते स्म शोभा ॥२३॥ (१) नखा एव विकसन्तः प्रवालास्तैः शोभमानैः । (२) नमनशीलदेवीनेत्रप्रतिबिम्बान्येव समागच्छन्मधुकरैः । (३) विशिष्टशाखाभिः । (४) पादद्रुमस्य । (५) देव्या अङ्गुलीभिः ।
(६) ध्रियते स्म । “डुभृञ् धारणपोषणयो''रित्यस्य रूपम् ॥२३॥ हील० नखो० । तस्या अङ्गुलीभिः शोभा धृता । उत्प्रेक्ष्यते । नखपल्लवकलितैर्नतसुरीनेत्रालियुक्तैश्चरणवृक्षस्य
शाखाविशेषैः ॥२३॥ 'पदं मयेदं प्रददे शिरस्सु दिशां दशानामपि "सुन्दरीणाम् । इतीव रेखा: 'पदयो रमाङ्गलीमिषात्तत्प्रमिता बिभर्ति ॥२४॥ (१) अयं चरणः । पदशब्दः पुंक्लीबे । यथा नैषधे- “पदं किमस्याङ्कितमूर्ध्वरेखया" । (२) दत्तम् । (३) दशदिग्वतिनीनाम् । (४) स्त्रीणाम् । (५) देवी । “अलम्भि माभिरमुष्य दर्शने" इति नैषधे । यथा मा तथा अमर्त्यापि । (६) अङ्गुलीरूपा रेखा । (७)
दशदिक्प्रमाणाः। (८) धत्ते ॥२४॥ हील० मया दिक्सुन्दरीणां शिरसि पदं दत्तम् । इतीव कारणादङ्गुलीदम्भाद्दशरेखा सा धत्ते ॥* २४।। हीसुं० विलासिबालव्यजना धृतातपत्रा स्फुरद्वारिजराजमाना ।
३अधीश्वरीवाखिलवारिजानां 'यदीयपादद्वितयी दिदीपे ॥२५॥ (१) आकृतिस्फुरच्चामरा । पुनराकृत्यैव कलितछत्रा । (२) प्रकटीभवद्भिः कमलैराकृतिधारिभिस्तैः शोभमाना । (३) स्वामिनीव । (४) समस्तकमलानाम् । (५) देवीचरणयुगली
॥ २५॥ हील० तत्त्वतो लाञ्छनतश्चामरछत्रकजकलिता ॥ २५॥ हीसुं० 'कथञ्चनाभ्यर्थनया मृदुत्वं 'रागश्रियं चाप्य पदारविन्दात् ।
प्रवालमाला 'धरणीरुहाणामि वाधमर्णीभवति स्म 'तस्याः ॥२६॥ (१) केनापि प्रकारेण । (२) याचनया । (३) सौकुमार्यम् । (४) लौहित्यं च । (५) तरूणाम् । (६) पल्लवपङ्क्तिः । तरुप्रवालकथनेन विद्रुमाणां निरासः । (७) ग्राहका
जाताः । (८) देव्याः ॥ २६ ॥ हील० पदारविन्दात् मृदुतां रक्ततां प्राप्य वृक्षप्रवालश्रेणिस्तस्या ग्राहका जाता ॥२६।। हीसुं० यत्पादराजौ परिशुद्धपाष्र्णी निर्जित्य गत्या खिलराजहंसान् ।
उच्चै रुचीस्फूर्तिमिषा ज्जिगीषू प्रस्थातुकामाविव १°नाकिनागम् ॥२७॥ 1. क्रमयो० हीमु० । 2. इति देवीपादाङ्गुल्यः हील० । 3.धृतोद्यच्छत्रा० हीमु० । 4. रुचिस्फू० हीमु० । 5. हीमु० २७-२८ तमश्लोकयोरेषोऽनुक्रमः २८-२७. 1 6. इति पाणिः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org