Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हीसुं०
२४०
'श्री हीरसुन्दर' महाकाव्यम् (४) रविमण्डलम् । (५) विकचकोकनदमिव ॥१८॥ हील० रविबिम्बं अब्धिपूरे कोकनदवद्विभाति । किंभूतः ?। उत्तुङ्गो गगनचुम्बी यस्तरङ्गाणां समृहर तारगरतस्य
शिखामवलम्बते, तादृशम् । पुनः किंभूतः ?। कमलकेसरवदाचरित: करनिकरो यस्य, तादृशम् ॥१८।।
पूरे समुद्रस्य 'बभस्ति बिम्बं राजीविनीजीवितनायकस्य । . .पयोधिपल्यङ्कतले शयालो रुल्लासि चक्रं किमु 'चक्रपाणेः ॥१९॥ (१) भाति । (२) सूर्यस्य मण्डलम् । (३) समुद्रशय्यामध्यशयनशीलस्य । ( ४ ) स्फुरच्चक्रम् ।
(५) कृष्णस्य ॥१९॥ हील० पूरे० । समुद्रस्य पूरे सूर्यबिम्बं भाति । उत्प्रेक्ष्यते । समुद्रशायिकृष्णस्य चक्रम् ॥१९॥ हीसुं० खण्डेन 'चण्डद्युतिमण्डलेन न्यमज्जि पूरे मकराकरस्य । ___ सूरेर्महःसाम्यकृतेऽब्धिझम्पासृजा शनैर्निष्यततेव भीतिः ॥२०॥
(१) किंचिन्न्यूनेन । (२) मार्तण्डबिम्बेन । (३) ब्रूडितम् । (४) समुद्रजलप्लवे । (५)
हीरविजयसूरिप्रतापसाम्यार्थः । (६) समुद्रपतनकृता । (७) भयात् ॥२०॥ हील० सूर्यस्य बिम्बस्यार्द्धखण्डोऽर्णवे मग्नः, अर्द्धः स्थितः । उत्प्रेक्ष्यते । सूरिप्रतापं प्राय म कुर्वता
शनैर्भयात्पतता ॥२०॥ हीसुं० अम्भोधिमध्येऽधितबिम्बमम्भोजिनीवरस्य स्फुरति स्म "सायम् ।
५अतादृशी प्रेक्ष्य दशां "प्रियस्य किम ब्धिमज्जद्दिनलक्ष्मिभालम् ॥२१॥ (१) समुद्रमध्ये । (२) अर्धीभूतमण्डलम् । अर्द्धं समुद्र मग्नमर्द्धं च बहिर्दृश्यमाना । ( ३ ) सूर्यस्य । (४) सन्ध्यायाम् । (५) शोच्याम् । (६) अवस्थाम् । (७) रवे: (८) दुःखात्समुद्रे
ब्रूडद्दिवसकमलाललाटमिव ॥२१॥ हील० समुद्रमध्ये रखेरर्द्धबिम्बं भाति । उत्प्रेक्ष्यते । स्वस्वामिनो विश्वशोच्या दशां वीक्ष्य दिवगलादण्या:
ललाटम् ॥२१॥ हीसुं० भानोर्बभौ मण्डलखण्डमब्धौ 'गन्तुः 'पुरारेमिलितुं "मुरारिम् ।
"मृगाङ्कलेखेव सरोषचण्डीसालक्तपादाहतशोणितश्रीः ॥२२॥ (१) बिम्बस्यांशमात्रम् । चतुर्थांश इत्यर्थः । (२) गच्छतीति गन्ता तस्य । (३) शंभोः । (४) कृष्णम् । (५) चन्द्रकलेव । (६) कुपितपार्वत्या अलक्तयुक्तचरणप्रहारेण रक्तीभूतशोभः । कुपितां गिरिजामनुनेतुं पदपतित ईश्वरस्य शिरसि प्रहार: प्रदत्तस्तदवसरे
चरणालक्तरसेन लग्नेन रक्तेवेत्यर्थः ॥२२॥ हील० भानोबिम्बखण्डं भाति । उत्प्रेक्ष्यते । कृष्णं मिलितुं यातुकस्येशस्य चरणे पतितग्य क्रुद्धपार्वत्या
यावकाक्तचरणहननरक्ता चन्द्रलेखा ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350