Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 268
________________ २५५ सप्तमः सर्गः ॥ कीर्तिभिः । (५) चन्द्रस्य ॥८५॥ हील० द्यावापृथिव्योर्मध्यं पूर्यते स्म । उत्प्रेक्ष्यते । चन्द्रकीर्तिभिः ॥८५।। हीसुं० भूमीनभोमण्डलमेदुरश्री र्योत्स्नावपुर्विष्णुपदीप्रवाहैः । "नक्तंदिनं 'जह्वपदप्रसत्तेः प्राकाम्यरूपा "किमवापि “सिद्धिः ॥८३॥ (१) पृथ्वीगगनयोरुपचितशोभा । (२) चन्द्रिकाकाया । (३) गङ्गाजलैः । (४) नित्यम् । (५) विष्णुपदस्य सेवनात् । (६) रोदःकन्दरविस्तरणशीला । बहुरूपा । (७) प्राप्ता । (८) फलनिष्पत्तिः ॥८६॥ हील० भूमीनभसोर्मण्डले मेदुरा शोभा यस्यास्तादृशी ज्योत्स्ना सैव वपुर्यस्यास्तादृशी या गङ्गा तस्याः प्रवाहैराकाशसेवातः किं बहुरूपकारिणी सिद्धिराप्ता ॥८६॥ हीसुं० 'चूर्णै: 'प्रपूर्णा किमु मौक्तिकानां पीयूषपड्रैः किमु वा विलिप्ता । श्रीखण्डनीरैः किमुताभिषिक्ता ज्योत्स्नाभिरु «धवलीकृताभात् ॥८७॥ (१) क्षोदैः । (२) पूरिता । (३) अमृतद्रवैः । (४) चन्दनवारिभिः । (५) चन्द्रचन्द्रिकाभिः । (६) भूमी । (७) बभौ ॥४७॥ हील० चूर्णैः प्र०। एतस्मिन्काव्ये कवेर्वितर्कत्वात्सुगमम् ॥८७॥ हीसुं० आप्लाविते कि 'सुरसिन्धुसुभ्रवः स्रोत:सहस्त्रैः परितः "प्रसृत्वरैः । 'कर्पूरपारीविलसद्यशोभरैः सूरीशितुर्वा विशदीकृते इव ॥८८॥ 'विलीयमानैस्तु हिनावनीभृन्नीहारचारैर्निभृतं भृते वा ।। प्रपूरिते सान्द्रितचन्द्रचन्द्रातपैर्विभातः स्म 'दिवस्पृथिव्यौ ॥८९॥ युग्मम् ॥ (१) निर्भरं भृते । (२) देवनद्याः । सिन्धोः समुद्रस्य पत्न्य गङ्गाया इत्यर्थः । (३) प्रवाहसहस्त्रैः । (४) प्रसृमरणशीलैः । (५) पार्यः । “फडसि" इति प्रसिद्धाः । कर्पूरश्रेण्येव तद्वद्भासमानकीर्तिभिः । (६) धवलीकृते इव ॥८८॥ (१) गलद्भिः । (२) हिमाचलहिमनिवहैः । (३) निबिडीभूतशशिचन्द्रिकाभिः । (४) नभोभूमी ॥८९॥ हील० आप्ला०। भूमीपृथिव्यौ भातः स्म । उत्प्रेक्ष्यते । गाङ्गौघैर्व्याप्ते । पुनः सूरीन्द्रयशोभिविमलीकृते । पुनर्हिमाद्रितुषारैभृते इव चन्द्रचन्द्रिकाभिर्व्याप्तयोभूमी(र्नभः)पृथिव्योरित्येवं विद्वज्जनानां मतिवि कल्पादुपमाप्रादुर्भावः सम्भवः ॥८८-८९॥ हीसुं० गङ्गावज्जल जन्मबन्धुतनया स्व:कुम्भिवत्कुञ्जरो नीरं क्षीरवदुत्पलं "कुमुदवत्का दंबवद्वायसः । 1. इति चन्द्रचन्द्रिकाप्रचारः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350