Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 266
________________ २५३ सप्तमः सर्गः ॥ (१) पूर्वदिक्कान्तया । (२) स्नेहेन । (३) शक्रे । ( ४ ) समागते । (५) निजगृहम् । (६) प्रकटीकृतः । (६) रात्रित्वात्तमो निराकर्तुम् । (८) चन्द्र एव दीपनशीलदीपः ॥७६॥ हील० स्वगृहमागच्छति वज्रिणि प्राचीवध्वा ध्वान्तं निराकर्तुं त्रियामेशरूपो दीप्तो दीप्रो विहितः ।।७६।। हीसुं० 'पूर्वाद्रिमौलेरथ मन्दमन्दं प्रचक्रमे गन्तुम चण्डरोचिः । 'निजोदयश्रीनवनृत्तसूत्रधारापरादि मिलितुं किमुत्कः ॥७७॥ (१) उदयाचल शिखरात् । (२) शनैः शनैः । "गगनमवजगाहे मन्दमन्दं मृगाङ्क" इति चम्पूकथायाम् । (३) प्रारब्ध[ वान्] । “प्रचक्रमे वक्तुमनुक्रमज्ञा" इति रघुवंशे । (४) चन्द्रः । (५) निजस्यात्मनः अभ्युदयलक्ष्म्या नवीनताण्डवस्य कलाचार्यः । यथा प्रातर्वर्णन"उदयगिरि-कुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्गः ॥" "परिणतरविगर्भव्याकुला पौरहूती, दिगपि घनकपोती हुंकृतैः क्रन्थतीव ॥" इत्युदयनाचार्यकालिदासयोः पदद्वयं पृथक् पृथक् । पश्चिमदिग्गिरिम् । (६) सोत्कण्ठः । चन्द्रस्य तु प्रतिपद्वितीयायाः पश्चिमायामेवोदयस्तस्मा-दस्ताचलश्चन्द्रस्योदयाद्रिः ॥७७॥ हील० पूर्वा०। चन्द्रश्चलति स्म । उत्प्रेक्ष्यते । उदयलक्ष्म्यारब्धनाट्यसूचकास्ताचलं मिलितुम् ।।७७।। हीसुं० स्वर्भाणुभीते: शरणीकृतेन प्राचीधवेनाय मुपेक्षितः सन् । पत्रस्यन्शशाङ्कः किमु पश्चिमाशापते: "शरण्यस्य समेत्युपान्तम् ।।७८।। (१) राहुभयात् । (२) आश्रितेन । (३) शक्रेण । (४) अकृतममत्व: सन् । (५) रिपोस्त्रासं प्राप्नुवन् । (६) वरुणस्य । (७) शरणागतवत्सलस्य । (८) पार्श्वम् ॥७८॥ हील० पूर्वशरणं मुक्त्वा पश्चिमापतिं शरणं याति ॥७८।। हीसुं० 'प्राचीपयोरशिपयःप्लवान्तर्विलासमाधाय मरालबालः । क्रीडां चिकीर्षुः किमु पश्चिमाब्धौ ‘नभोध्वनासौ प्रचचाल चन्द्रः ॥७९॥ (१) पूर्वसमुद्रपयःपूरमध्ये क्रीडां कृत्वा । (२) कर्तुमिच्छुः। (३) पश्चिम समुद्रे । (४) गगनमार्गेण ॥७९॥ हील० चन्द्रः प्रचचाल । उत्प्रेक्ष्यते । हंसबालः ॥७९॥ हीसुं० सञ्चारि निर्दण्डमिवातपत्रं विहस्तको वा "चलदात्मदर्शः । क्रीडातडागः किमु 'जङ्गमो वा स्मरावनीन्दोः शशभृद्वभासे ॥८०॥ इति सञ्चारः॥ (१) सञ्चरणशीलम् । (२) दण्डरहितम् । (३) हस्तकेन रहितम् । ( ४ ) प्रचलन्दर्पणाः । (५) सञ्चलन् । (६) चन्द्रः ॥८०॥ हील० चन्द्रो भाति स्म । उत्प्रेक्ष्यते । स्मरस्य छत्रं वा दर्पणं वा कासारो वेति कविविमर्शः ॥८॥ 1. ०ते । हीमु० । 2. इति नभसि चन्द्रबिम्बसञ्चारः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350