________________
२५३
सप्तमः सर्गः ॥ (१) पूर्वदिक्कान्तया । (२) स्नेहेन । (३) शक्रे । ( ४ ) समागते । (५) निजगृहम् । (६)
प्रकटीकृतः । (६) रात्रित्वात्तमो निराकर्तुम् । (८) चन्द्र एव दीपनशीलदीपः ॥७६॥ हील० स्वगृहमागच्छति वज्रिणि प्राचीवध्वा ध्वान्तं निराकर्तुं त्रियामेशरूपो दीप्तो दीप्रो विहितः ।।७६।। हीसुं० 'पूर्वाद्रिमौलेरथ मन्दमन्दं प्रचक्रमे गन्तुम चण्डरोचिः ।
'निजोदयश्रीनवनृत्तसूत्रधारापरादि मिलितुं किमुत्कः ॥७७॥ (१) उदयाचल शिखरात् । (२) शनैः शनैः । "गगनमवजगाहे मन्दमन्दं मृगाङ्क" इति चम्पूकथायाम् । (३) प्रारब्ध[ वान्] । “प्रचक्रमे वक्तुमनुक्रमज्ञा" इति रघुवंशे । (४) चन्द्रः । (५) निजस्यात्मनः अभ्युदयलक्ष्म्या नवीनताण्डवस्य कलाचार्यः । यथा प्रातर्वर्णन"उदयगिरि-कुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्गः ॥" "परिणतरविगर्भव्याकुला पौरहूती, दिगपि घनकपोती हुंकृतैः क्रन्थतीव ॥" इत्युदयनाचार्यकालिदासयोः पदद्वयं पृथक् पृथक् । पश्चिमदिग्गिरिम् । (६) सोत्कण्ठः । चन्द्रस्य तु प्रतिपद्वितीयायाः
पश्चिमायामेवोदयस्तस्मा-दस्ताचलश्चन्द्रस्योदयाद्रिः ॥७७॥ हील० पूर्वा०। चन्द्रश्चलति स्म । उत्प्रेक्ष्यते । उदयलक्ष्म्यारब्धनाट्यसूचकास्ताचलं मिलितुम् ।।७७।। हीसुं० स्वर्भाणुभीते: शरणीकृतेन प्राचीधवेनाय मुपेक्षितः सन् ।
पत्रस्यन्शशाङ्कः किमु पश्चिमाशापते: "शरण्यस्य समेत्युपान्तम् ।।७८।। (१) राहुभयात् । (२) आश्रितेन । (३) शक्रेण । (४) अकृतममत्व: सन् । (५)
रिपोस्त्रासं प्राप्नुवन् । (६) वरुणस्य । (७) शरणागतवत्सलस्य । (८) पार्श्वम् ॥७८॥ हील० पूर्वशरणं मुक्त्वा पश्चिमापतिं शरणं याति ॥७८।। हीसुं० 'प्राचीपयोरशिपयःप्लवान्तर्विलासमाधाय मरालबालः ।
क्रीडां चिकीर्षुः किमु पश्चिमाब्धौ ‘नभोध्वनासौ प्रचचाल चन्द्रः ॥७९॥ (१) पूर्वसमुद्रपयःपूरमध्ये क्रीडां कृत्वा । (२) कर्तुमिच्छुः। (३) पश्चिम समुद्रे ।
(४) गगनमार्गेण ॥७९॥ हील० चन्द्रः प्रचचाल । उत्प्रेक्ष्यते । हंसबालः ॥७९॥ हीसुं० सञ्चारि निर्दण्डमिवातपत्रं विहस्तको वा "चलदात्मदर्शः ।
क्रीडातडागः किमु 'जङ्गमो वा स्मरावनीन्दोः शशभृद्वभासे ॥८०॥ इति सञ्चारः॥ (१) सञ्चरणशीलम् । (२) दण्डरहितम् । (३) हस्तकेन रहितम् । ( ४ ) प्रचलन्दर्पणाः ।
(५) सञ्चलन् । (६) चन्द्रः ॥८०॥ हील० चन्द्रो भाति स्म । उत्प्रेक्ष्यते । स्मरस्य छत्रं वा दर्पणं वा कासारो वेति कविविमर्शः ॥८॥ 1. ०ते । हीमु० । 2. इति नभसि चन्द्रबिम्बसञ्चारः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org