SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५२ 'श्री हीरसुन्दर' महाकाव्यम् (१) उदयाचलशिखरे । (२) किञ्चिन्न्यूनम् । (३) चन्द्रस्य । (४) राहुदंष्ट्रामध्यनिर्गमनत: ॥७१॥ हील० असम्पूर्णश्चन्द्रः शुशुभे । उत्प्रेक्ष्यते । राहुणार्द्धकृतः ॥७१।। हीसुं० 'सम्पूर्णपीयूषमयूखबिम्बं बभौ ततः 'स्वीयदिगङ्गनायै । मरन्दलीनालिपुरन्दरेण किम यॆते स्म स्मितपुण्डरीकम् ॥७२॥ (१) अखण्डचन्द्रमण्डलम् । (२) निजदिग्मृगाक्ष्यै । पूर्वायै । (३) मकरन्दपानार्थमन्तर्निश्चली भूता भृङ्गा यत्र । (४) अर्पितम् ॥७२॥ हील० अथ सम्पूर्णः शुशुभे । उत्प्रेक्ष्यते । इन्द्रेणालिकलितं पुण्डरीकं पूर्वस्याः प्रत्तम् ।।*७२।। हीसुं० २पितामहस्य 'व्रतिराट्चरित्रैश्चि त्रीयमाणस्य 'विधूतमौलेः । कमण्डलुश्चान्द्र इवोत्पलाङ्कः स्रस्त: “शयादुल्लसति स्म 'सोमः ॥७३॥ (१) कवेरपरवर्णनराभस्येन मा ग्रन्थनायको विस्मृतो भूदिति तमेव स्मारयति । हीरविजयसूरिचरितैः (२) विस्मयं दधानस्य । (३) विधेः । (४) कम्पितशिरसः । (५) चन्द्रकान्तमणिमयः कमण्डलुः । (६) कुवलयकलितः । (७) पतितः । (८) हस्तात् । (९) स एव चन्द्रः । (१०) स्फुरति ॥७३॥ हील० चन्द्रो भाति । उत्प्रेक्ष्यते । श्रीहीरविजयसूरिचरित्रैः कम्पितशिरसो ब्रह्मणः करात्पतित: कमलसहित: चन्द्रकान्तरत्नघटितः कमण्डलुरिव ॥७३।। हीसुं० 'पीयूषपूर्णः 'कलधौतक्लृप्तोऽभिषेककुम्भः किमु शीत कान्तिः । पशृङ्गारयोनिं 'जगदाधिपत्येऽभिषिञ्चता विश्वकृता 'व्यधायि ॥७४॥ (१) अमृतभृतः । (२) रूप्यनिर्मितः । (३) अभिषेककरणाय कलश: । (४) चन्द्रः । (५) स्मरम् । (६) भुवनानां राज्ये । (७) विधिना । (८) कृतः ॥७४॥ हील० पीयू०। सङ्कल्पयोनिमाधिपत्ये न्यस्यता विधिना विधुः कुम्भः कृतः ॥*७४।। हीसुं० १क्षयात्सुधायाश्चिरकालपानात्तां' याचमानाननुगृह्य देवान् । "सुधारुचिविश्वसृजा सुधाया ६अक्षीणकुम्भः किमु कल्प्यते स्म ॥७५॥ (१) नाशात् । (२) सुधाम् (३) अनुग्रहं कृत्वा । (४) चन्द्रः । (५) धात्रा । (६) अक्षयकलश: । (७) कृतः ॥७५॥ हील० सुधाक्षयात्पुनः सुधां याचमानान्देवाननुग्रहं कृत्वा ध्रुवेण चन्द्रोऽमृत कुम्भः कृतः ॥७५।। हीसुं० प्राग्दिग्मृगाक्ष्या 'प्रणयेन पत्यौ "समीयुषि ५स्वावसथं सुरेन्द्रे ।। ६उद्बोधितो भेत्तुमिवान्धकारं 'निशीथिनीनायकदीप्रदीपः ॥७६॥ इति चन्द्रः।। 1. सम० हीमु० । 2. कौमुदीश: हीमु० । 3. इति चन्द्रोदयः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy