________________
सप्तमः सर्गः ॥ हीसुं० 'संसृज्य राज्यद्दयितेन पत्नी हरेर्ह रित्ता रविभूषणश्रीः ।
गर्भं वहन्ती 'मिहिकामयूखं मुखेपुषत्पाण्डुरिमाणमूहे ॥६७॥
(१) सङ्गं कृत्वा । “निर्वापयिष्यन्निव संसिसृक्षो ' 'रिति नैषधे । सङ्गं कर्त्तुमिच्छोरिति तद्वृत्तिः । (२) अनुरक्तीभवत्कान्तेन । “रज्यन्नखस्याङ्गुलिपञ्चकस्ये" ति नैषधे ( ३ )
पत्नी । ( ४ ) दिग् पूर्वा । "निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित् " इति नैषधे । (५) तारा उज्ज्वला मनोज्ञास्ताररूपा वा आभरणानां श्रीर्यस्याः । “प्रथममुपहृत्यार्थं तारैरखण्डिततन्दुलै" रिति नैषधे । ( ६ ) चन्द्रम् । (७) श्वेतताम् ॥६७॥ हील० रागिपतिना - इन्द्रेण पतिना वा सह सङ्गं कृत्वा चन्द्रगर्भं वहन्ती गुर्वीणी जाता ॥६७॥ हीसुं० 'आकण्ठमम्भस्सु निमज्य काममन्त्रोऽलिशब्दैः कुमुदैर' साधि । विकाशलक्ष्मीं ददती किमेषा तत्सिद्धिरिन्दुद्युतिराविरासीत् ॥६८॥
(१) कण्ठमर्यादीकृत्य । (२) अभिलाषदायिमन्त्रः । ( ३ ) भ्रमरगुञ्जारवैः । ( ४ ) साधितः । (५) कैरवैः । ( ६ ) चन्द्रचन्द्रिकारूपा तस्य मन्त्रस्य फलनिष्पत्तिर्जाता ॥ ६८ ॥ हील. कुमुदैर्मन्त्रः साधितः । उत्प्रेक्ष्यते । कुमुदानां विकाशं ददती तत्सिद्धिश्चन्द्रिका उद्भूता ॥६८॥ हीसुं० ' सान्द्रदुमोल्लासिनि पूर्वशैलशृङ्गाङ्गणे चञ्चति चन्द्रलेखा ।
३किञ्चिन्निरीक्ष्या "हरिदिग्मृगाक्ष्याश्चूडामणिः किं चिकुरान्तरस्था ॥ ६९॥
(१) सच्छायतरुशालिनि । ( २ ) शोभते । "चकास्ति चञ्चति लसत्यपि शोभते " इति क्रियाकलापे । ( ३ ) स्वल्पम् । ( ४ ) दृश्या । ( ५ ) पूर्वाकान्ताया: । ( ६ ) केशपाशमध्यस्थास्नुः ॥६९॥
हील० उदयाद्रिद्रुमान्तश्चन्द्रलेखा संशोभते । उत्प्रेक्ष्यते । पूर्वस्याश्चिकुरान्तर्वर्तिनी चूडामणिः । 'मणिशब्दः पुंस्त्रियोः' ॥६९॥
हीसुं० दत्वाधिपत्यं निखिलाचलानां स्वदिग्गिरेः स्वर्गिरिचक्रिणेव ।
"मौलिस्थले राजतपट्टबन्धो विनिर्मितः 'स्फूर्जति सामिसोमः ॥७०॥
२५१
( १ ) राज्यम् । ( २ ) सर्वगिरीणाम् । (३) पूर्वादे: ( ४ ) इन्द्रेण । "जाम्बूनदोर्व्वीधरसार्वभौम' इति नैषधे । ( ५ ) शिरसि । ( ६ ) दीप्यते । (७) अर्द्धचन्द्रः । “पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी "ति नैषधे । अर्द्धनिर्मितेति तद्वृत्तिः ॥ ७० ॥
हील० दत्वा०। अर्द्धश्चन्द्रः शोभते । उत्प्रेक्ष्यते । उदयाद्रेः पर्वताधिपत्यं दत्वेन्द्रेण मौलौ रूप्यपट्टबन्धा
निर्मितः ॥७०॥
हीसुं० 'सुरेन्द्रदिग्भूधरमूर्धिन बिम्बम' पूर्णमाभासत शीतभासः । खण्डं शिखायामिव 'सैंहिकेयदंष्ट्रान्तरायन्त्रणतोऽजनिष्ट ॥७१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org