SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ हीसुं० २४० 'श्री हीरसुन्दर' महाकाव्यम् (४) रविमण्डलम् । (५) विकचकोकनदमिव ॥१८॥ हील० रविबिम्बं अब्धिपूरे कोकनदवद्विभाति । किंभूतः ?। उत्तुङ्गो गगनचुम्बी यस्तरङ्गाणां समृहर तारगरतस्य शिखामवलम्बते, तादृशम् । पुनः किंभूतः ?। कमलकेसरवदाचरित: करनिकरो यस्य, तादृशम् ॥१८।। पूरे समुद्रस्य 'बभस्ति बिम्बं राजीविनीजीवितनायकस्य । . .पयोधिपल्यङ्कतले शयालो रुल्लासि चक्रं किमु 'चक्रपाणेः ॥१९॥ (१) भाति । (२) सूर्यस्य मण्डलम् । (३) समुद्रशय्यामध्यशयनशीलस्य । ( ४ ) स्फुरच्चक्रम् । (५) कृष्णस्य ॥१९॥ हील० पूरे० । समुद्रस्य पूरे सूर्यबिम्बं भाति । उत्प्रेक्ष्यते । समुद्रशायिकृष्णस्य चक्रम् ॥१९॥ हीसुं० खण्डेन 'चण्डद्युतिमण्डलेन न्यमज्जि पूरे मकराकरस्य । ___ सूरेर्महःसाम्यकृतेऽब्धिझम्पासृजा शनैर्निष्यततेव भीतिः ॥२०॥ (१) किंचिन्न्यूनेन । (२) मार्तण्डबिम्बेन । (३) ब्रूडितम् । (४) समुद्रजलप्लवे । (५) हीरविजयसूरिप्रतापसाम्यार्थः । (६) समुद्रपतनकृता । (७) भयात् ॥२०॥ हील० सूर्यस्य बिम्बस्यार्द्धखण्डोऽर्णवे मग्नः, अर्द्धः स्थितः । उत्प्रेक्ष्यते । सूरिप्रतापं प्राय म कुर्वता शनैर्भयात्पतता ॥२०॥ हीसुं० अम्भोधिमध्येऽधितबिम्बमम्भोजिनीवरस्य स्फुरति स्म "सायम् । ५अतादृशी प्रेक्ष्य दशां "प्रियस्य किम ब्धिमज्जद्दिनलक्ष्मिभालम् ॥२१॥ (१) समुद्रमध्ये । (२) अर्धीभूतमण्डलम् । अर्द्धं समुद्र मग्नमर्द्धं च बहिर्दृश्यमाना । ( ३ ) सूर्यस्य । (४) सन्ध्यायाम् । (५) शोच्याम् । (६) अवस्थाम् । (७) रवे: (८) दुःखात्समुद्रे ब्रूडद्दिवसकमलाललाटमिव ॥२१॥ हील० समुद्रमध्ये रखेरर्द्धबिम्बं भाति । उत्प्रेक्ष्यते । स्वस्वामिनो विश्वशोच्या दशां वीक्ष्य दिवगलादण्या: ललाटम् ॥२१॥ हीसुं० भानोर्बभौ मण्डलखण्डमब्धौ 'गन्तुः 'पुरारेमिलितुं "मुरारिम् । "मृगाङ्कलेखेव सरोषचण्डीसालक्तपादाहतशोणितश्रीः ॥२२॥ (१) बिम्बस्यांशमात्रम् । चतुर्थांश इत्यर्थः । (२) गच्छतीति गन्ता तस्य । (३) शंभोः । (४) कृष्णम् । (५) चन्द्रकलेव । (६) कुपितपार्वत्या अलक्तयुक्तचरणप्रहारेण रक्तीभूतशोभः । कुपितां गिरिजामनुनेतुं पदपतित ईश्वरस्य शिरसि प्रहार: प्रदत्तस्तदवसरे चरणालक्तरसेन लग्नेन रक्तेवेत्यर्थः ॥२२॥ हील० भानोबिम्बखण्डं भाति । उत्प्रेक्ष्यते । कृष्णं मिलितुं यातुकस्येशस्य चरणे पतितग्य क्रुद्धपार्वत्या यावकाक्तचरणहननरक्ता चन्द्रलेखा ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy