SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ॥ २३९ भ्रमरयुक्तासु कुसुमावलीषु अस्या भूषासु सतीषु । पुनः सूरौ ध्यानक्षीराब्धौ मीनवल्लीने सति ॥११★१२-१३|| हीसुं० विधेर्नियोगेन 'निजास्तपश्यान्पुत्रानिवोत्सङगजुष: "स्वरश्मीन् । दृष्ट्वा 'यियातूंस्तदुदीतकोपादिवारुणीभूतमथारुणेन ॥१४॥ (१) दैववशेन । (२) निजस्य सूर्यात्मनः अस्तं पश्यन्तीति । (३) उत्सङ्गसङ्गिनः । (४) निजकिरणान् । (५) गन्तुमिच्छून् । (६) तेषु किरणेषु प्रकटीभूतक्रोघात् । (७) रक्तीभूतम् । (८) भानुना ॥१४॥ हील० विधे० । निजस्य सूर्यात्मनः अस्तं क्षयं पश्यन्ति, तादृशास्वकिरणान् यातुमिच्छून् दृष्ट्वा तेषूदीतकोपात्सूर्येण रक्तीभुतम् ॥१४॥ हीसुं० 'जहेऽम्बरं 'सायम शीतभासा नीत्वा स्तधात्रीधरगह्वरान्तः । प्रदोषनाम्ना परिमोषिणेवा सहायिभावेन बलाद्गृहीतम् ॥१५॥ (१) त्यक्तम् । (२) वस्त्रमाकाशं च । (३) सन्ध्यायाम् । (४) भानुना । (५) अस्ताचलगहनमध्ये । (६) रजनीमुखनामतस्करेण । (७) एकत्वेन सहायराहित्येन ॥१५॥ हील० जहे० । सूर्येणाम्बरं-गगनं वसनं वा त्यक्तम् । उत्प्रेक्ष्यते । अस्ताद्रेणुहान्तर्नीत्वा प्रदोषतस्करेण एकाकित्वेन गृहीतम् ॥१५॥ हीसुं० 'कलङ्कवानिन्दुरथा भ्युदेता ऽकलङ्किनो 'विश्वविबोधिनो मे । न साम्प्रतं साम्प्रतमत्र वस्तुमितीव याति क्वचिदंशुमाली ॥१६॥ (१) दोषाभ्युदितापवादवान्सलक्ष्मा च । (२) चन्द्रः । (३) उदयिष्यति । (४) निष्कलङ्कस्य । (५जगत्प्रतिबोधविधातुः । (६) युक्तम् ।। हील० कलङ्कवांश्चन्द्रोऽधुनोदेष्यति । अकलङ्कवतो मे वस्तुमिदानीं नोचितमितीव रविः क्वचिद्याति ।।१६।। हीसुं० स्वरागिणीमञ्जनकुम्भिकुम्भ प्रगल्भपीनस्तनदिग्मृगाक्षीम् । निर्वर्ण्य रागीव 'दिनावसाने किं 'पद्मिनीप्राणपतिः प्रयाति ॥१७॥ (१)[अत्र किञ्चिटितमिव प्रतिभाति । ] तावेव प्रोद्दामौ पुष्टौ स्तनौ यस्यास्तादृशी दिग्पश्चिमा सैव तरुणी ताम् । (२) दृष्ट्वा । (३) रागवान् । (४) सायम् । (५) सूर्यः ॥१७॥ हील० स्वस्मिन् स्नेहलां अञ्जनः पञ्चमदिग्गजस्य कुम्भावेव पीनौ स्तनौ यस्यास्तादृशी पश्चिमदिग् मृगनेत्रां वा दृष्ट्वा सूर्यो रागी सन् सायं तत्सन्निधौ याति ॥१७॥ हीसुं० 'उत्तुङ्गतारङ्गशिखावलम्बि 'किञ्जल्कलीलायितरश्मिराशि । पयोधिपूरेऽम्बुजबन्धुबिम्बं “स्मेरारुणाम्भोरुहवद्विभाति ॥१८॥ (१) उच्चैस्तरतरङ्गगणाग्रमाश्रयन् । (२) केसरलीलायमानकिरणनिकरः । (३) समुद्रजले । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy