SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० आस्वादितस्वादुमृणालकाण्डा: 'कूजन्ति लीलालसराजहंसाः । ४आगन्तुकार्हन्मतदेवतायाः "स्मरध्वजा: पूर्वमिव ध्वनन्तः ॥९॥ (१) जग्धाः स्वादनीयकमलनालपटलाः । (२) शब्दायन्ते । (३) क्रीडया मन्थरा राजहंसाः । (४) आगमनशीलशासनदेवतायाः । (५) वाद्यानि । (६) प्रथममेव । (७) शब्दायमानाः ॥९॥ हील० काण्डाः स्तम्बाः राजहंसाः शब्दायन्ते । उत्प्रेक्ष्यते । सुरेः पुर आगन्तुकायाः शासनदेव्या वाद्यानि ॥९॥ हीसुं० निर्मि(म)ष्टनि: शेषनिषद्वरायाः कि वर्ण्यतेऽस्या: शरदिन्दिरायाः । जडाशयानप्यसृजत्प्रसन्नाशयान्क विश्रीकलितांश्च 'यत्सा ॥१०॥ (१) अपहृतसमस्तकमायाः । (२) शरलक्ष्म्याः । (३) मूर्खान्सरांसि च । (४) स्वच्छमध्यान् प्रसादयुक्तचित्तान् । “दयासमुद्रे स तदाशयेऽतिथी-चकार कारुण्य[ र]सापगागिर" इति नैषधे । (५) पानीयपक्षिशोभायुतान् काव्यकर्तृलक्ष्मीसहितांश्च ॥१०॥ हील० शुष्कपङ्कयाः शरच्छोभायाः किं वर्ण्यते । डलयोरैक्याज्जडचित्तान्कवीन् च पुनः काव्यकनिकरात् । तत्त्वतो निर्मलजलमध्यान् । पुनः कस्य जलस्य वयसः पक्षिणो हंसादयस्तैर्युक्तांश्चक्रे ॥१०॥ हीसुं० 'स्मितेषु 'पद्मेषु मुखेष्विवास्या रङ्गत्सु नेत्रेष्विव खञ्जनेषु । "बन्दिष्विव "स्मेरसरोजपौष्यनिष्पातिगुञ्जन्मधुपव्रजेषु ॥११॥ 'पटीश्विवोद्दामकलामकौघावदातकेदारवसुन्धरासु । ३भूषास्विवास्या विविधासु "लीनशिलीमुखस्मेरसुमावलीषु ॥१२॥ 'गणाधिराजे 'प्रणिधानदुग्धपाथोनिधौ मीन इवातिलीने । तदा कदाचिद्गगनाध्वनीनोऽपराचलाभ्यर्णभुवं बभाज ॥१३॥ - त्रिभिर्विशेषकम् ॥ इति शरत् ॥ (१) विकचेषु । (२) कमलेषु । (३) चलत्सु । (४) मङ्गलपाठकेषु । (५) विकचकमलपरागेषु निष्पतनशीलशब्दायमानभ्रमरनिकरेषु ॥११॥ (१) वस्त्रेषु । (२) उल्लसत्कलमशालिश्रेणिशुभ्रकेदारभूमीषु । (३) आभरणेसु । (४) मकरन्दपानागतनिलयमानभ्रमरविकचत्कुसुमपङ्क्तिषु ॥१२॥ (१) हीरविजयसूरीन्दे । (२) ध्यानक्षीरसमुद्रे । (३) मच्छ्या त्स्य ) इव । ( ४ ) शरदि । (५) सूर्यः । (६) अस्ताचलसमीपस्थानम् ॥१३॥ हील० गगनपान्थः सूर्योऽस्ताद्रिभुवं भजति स्म । केषु सत्सु ?। अस्याः शरदो विकसितकमलप मुख्नेषु सत्सु । पुनः खञ्जनेषु चलन्नेत्रेषु सत्सु । पुनर्विकसत्कमलामरन्दे लोलुपमधुपेषु बन्दिषु मङ्गलपाठकषु सत्सु । उच्चशालिसमूहेनोज्ज्वलकेदारभूमिषु अस्याः शरदः परिधानवस्त्रेषु सत्सु । पुनर्नानाविधासु 1. यत्सा( द्या) हीमु० । 2. मधुकदव० हीमु० । 3. इति शरत्समयः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy