Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२३१
षष्ठः सर्गः ॥ हीसुं० 'वर्द्धमानः क्रमेणाथ सोऽजनिष्टा'ष्टहायनः ।
प्रत्यहं "प्रणय केली: सिन्धुराधिपपोतवत् ॥१७४॥ (१) वृद्धि प्राप्नुवन् । (२) अष्टवर्षः । (३) नित्यम् । (४) कुर्वन् । (५) क्रीडाः (६)
गजेन्द्रबालः । “स्यात्पोतो दशवार्षिकः" इति हैम्याम् ॥१७४॥ हील० यथा गजपोतो । दशवर्षीयगजः केलि कुरुते तद्वत्क्रीडां कुर्वन्सोऽष्टवार्षिक: सञ्जातवान् ॥१७४|| हीसुं० 'सोऽ'नवद्यास्ततो विद्या: स्माधीते गुरुसन्निधौ ।
"हाई तासां स जग्राहाऽभिज्ञवन्मुग्धचेतसाम् ॥१७५।। (१) जयसिंहकुमारः । (२) प्रशस्याः । (३) पठति स्म । (४) कलाचार्यपार्श्वे । (५)
रहस्यविशेषादि । (६) विद्यानाम् । (७) विदग्धः । (८) निर्बुद्धीनाम् ॥१७५॥ हील० स विद्याः पठति स्म । च पुनस्तासां विद्यानां रहस्यं जगृहे । यथा विद्वान् मुर्खपुंसा रहस्यं गृह्णाति
।।*१७५।। हीसूं० 'सिद्ध्यध्वानं प्रतिष्ठासुर्विधित्सुर्धर्म मार्हतम् ।
"सखायमिव तद्वप्ता संयमं “समुपाददे ॥१७६॥ (१) मुक्तिनगरीमार्गम् । (२) प्रतिस्थातुकामः । (३) कर्तुमिच्छुः । (४) तीर्थकरप्रणीतं धर्मम् । (५) मित्रमिव । (६) जयसिंहपिता कमाख्यः । (७) चारित्रम् । (८) जग्राह
॥१७६॥ हील० सिद्धय० । सिद्धिमार्ग प्रस्थातुमिच्छुष्पि(: पि)ता सखायं संयमं गृह्णाति स्म ॥१७६।। हीसुं० 'ततो नमसितुं सूरिं "कुमार: स कदाचन ।
'प्रतिष्ठते स्म सानन्दं “वृषभाङ्कमिवार्षभिः ॥१७७॥ (१) पितृदीक्षानन्तरम् । (२) कियति काले । (३) वन्दितुम् । (४) विजयदानसूरिम् । (५) जयसिंहः । (६) चलति स्म । (७) सहर्षम् । (८) ऋषभदेवम् । (९) भरतः
॥१७७॥ हील० ततः कुमारः सूरिं नन्तुं प्रचलति स्म । यथा भरतचक्री स्वतातं ऋषभदेवं प्रणेतुं प्रचलति स्म
॥★१७७।। हीसुं० प्रीतिवापीपयःपूराप्लवनैः 'पुलकाङ्किता । ___ प्रसूस्तमनु याति स्म ५ गौरिवाङ्गजमात्मनः ॥१७८॥
(१) स्नेहरूपदीर्घिकाजलप्लवे स्नानकरणैर्मज्जनैः । (२) रोमाञ्चिता । (३) माता कोडिमदेवी। 1. ०णासावजनि० हीमु० । 2. च । हीमु० । 3. ०तुं तातं० । हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350