SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३१ षष्ठः सर्गः ॥ हीसुं० 'वर्द्धमानः क्रमेणाथ सोऽजनिष्टा'ष्टहायनः । प्रत्यहं "प्रणय केली: सिन्धुराधिपपोतवत् ॥१७४॥ (१) वृद्धि प्राप्नुवन् । (२) अष्टवर्षः । (३) नित्यम् । (४) कुर्वन् । (५) क्रीडाः (६) गजेन्द्रबालः । “स्यात्पोतो दशवार्षिकः" इति हैम्याम् ॥१७४॥ हील० यथा गजपोतो । दशवर्षीयगजः केलि कुरुते तद्वत्क्रीडां कुर्वन्सोऽष्टवार्षिक: सञ्जातवान् ॥१७४|| हीसुं० 'सोऽ'नवद्यास्ततो विद्या: स्माधीते गुरुसन्निधौ । "हाई तासां स जग्राहाऽभिज्ञवन्मुग्धचेतसाम् ॥१७५।। (१) जयसिंहकुमारः । (२) प्रशस्याः । (३) पठति स्म । (४) कलाचार्यपार्श्वे । (५) रहस्यविशेषादि । (६) विद्यानाम् । (७) विदग्धः । (८) निर्बुद्धीनाम् ॥१७५॥ हील० स विद्याः पठति स्म । च पुनस्तासां विद्यानां रहस्यं जगृहे । यथा विद्वान् मुर्खपुंसा रहस्यं गृह्णाति ।।*१७५।। हीसूं० 'सिद्ध्यध्वानं प्रतिष्ठासुर्विधित्सुर्धर्म मार्हतम् । "सखायमिव तद्वप्ता संयमं “समुपाददे ॥१७६॥ (१) मुक्तिनगरीमार्गम् । (२) प्रतिस्थातुकामः । (३) कर्तुमिच्छुः । (४) तीर्थकरप्रणीतं धर्मम् । (५) मित्रमिव । (६) जयसिंहपिता कमाख्यः । (७) चारित्रम् । (८) जग्राह ॥१७६॥ हील० सिद्धय० । सिद्धिमार्ग प्रस्थातुमिच्छुष्पि(: पि)ता सखायं संयमं गृह्णाति स्म ॥१७६।। हीसुं० 'ततो नमसितुं सूरिं "कुमार: स कदाचन । 'प्रतिष्ठते स्म सानन्दं “वृषभाङ्कमिवार्षभिः ॥१७७॥ (१) पितृदीक्षानन्तरम् । (२) कियति काले । (३) वन्दितुम् । (४) विजयदानसूरिम् । (५) जयसिंहः । (६) चलति स्म । (७) सहर्षम् । (८) ऋषभदेवम् । (९) भरतः ॥१७७॥ हील० ततः कुमारः सूरिं नन्तुं प्रचलति स्म । यथा भरतचक्री स्वतातं ऋषभदेवं प्रणेतुं प्रचलति स्म ॥★१७७।। हीसुं० प्रीतिवापीपयःपूराप्लवनैः 'पुलकाङ्किता । ___ प्रसूस्तमनु याति स्म ५ गौरिवाङ्गजमात्मनः ॥१७८॥ (१) स्नेहरूपदीर्घिकाजलप्लवे स्नानकरणैर्मज्जनैः । (२) रोमाञ्चिता । (३) माता कोडिमदेवी। 1. ०णासावजनि० हीमु० । 2. च । हीमु० । 3. ०तुं तातं० । हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy