________________
२३२
'श्री हीरसुन्दर' महाकाव्यम् (४) अनुगच्छति स्म । (५) धेनुर्निजवत्सम् ॥१७८॥ हील० प्रसू: कोडाई तमनुयाति स्म । यथा गौर्वत्समनुगच्छति ॥१७८।। हीसुं० श्रीमन्मुनिनिशारत्नं जयसिंहकुमारराट् ।
प्रणतेर्गोचरीचक्रे ३श्रीवीरमति"मुक्तवत् ॥१७९॥ (१) विजयदानसूरिम् । (२) नमस्करोति स्म । (३) महावीरम् । (४) अतिमुक्तकनामा
कुमारः ॥१७९॥ हील० कुमारेण श्रीविजयदानसूरिनम्यते स्म । यथातिमुक्तक: श्रीवीरं प्रणतवान् ॥१६९।। हीसुं० अथ 'पृथुकपुरोगस्सं मदेन व्रतीन्दोरिव गजसुकुमालः स्वामिनो ऽरिष्टनेमेः ।
अधिकम धरयन्तीं साधिमानं “सुधानां श्रवणविषयभावं देशना मानिनाय ॥१८०॥ (१) कुमारराजः । (२) प्रीत्या । (३) विजयदानसूरेः । (४) कृष्णलघुभ्राता । (५) नेमिनाथस्य । (६) तिरस्कुर्वतीम् । (७) चारुताम् । (८) अमृतानाम् । (९) देशनां
श्रृणोति स्म ॥१८०॥ हील० अथ पृ० । शिशुमुख्य सुधाचारुतां धिक्कुर्वती सूरिदेशनां श्रुतवान् । यथा कृष्णलघुभ्राता देवक्या
अष्टमपुत्रो गजसुकुमालः श्रीनेमिनाथस्य देशनां शुश्राव ॥१८०॥ । हील०→ असाराद्देहिनां देहात्सारोऽर्हद्धर्म एव हि ।
उद्धार्योऽनर्थकार्यर्थाद्दानशौण्डेन दानवत् ॥१८१॥
असा० प्राणिभूघनाद्धर्म एवोद्धरितव्यः । यथानर्थकारिणोऽर्थाद्वदान्येन दानमुध्रियते ॥१८१॥ हीसुं० 'प्रबुबुधे 'प्रभुदेश'नया तया २शिशुसहस्त्रदृशा सममम्बया । ___ "विशदचन्द्रिकयेव कुमुद्वतीलतिकया "कुमुदेन 'तमीमणेः ॥१८१॥
(१) प्रतिबुध्यते स्म । (२) विजदानसूरिगिरा । (३) कुमारेण ।(४) कोडिमदेव्या सार्द्धम् । __ (५) निर्मलचन्द्रज्योत्स्नया । (६) कुमुदिनीवल्ल्या सह । (७) कैरवेण । (८) चन्द्रस्य ॥ हील० जनन्या समं कुमारेन्द्रेण प्रबोधः प्राप्यते । यथा चन्द्रज्योत्स्नया कैरविण्या सह कैरवेण प्रबुद्ध्यते
॥१८२॥ हीसु० 'प्रभोरुपान्ते सम मम्ब्या महामहैर्महेभ्यीभवदर्थिमण्ड ले ।
"सुनन्दया सी(सिं )हगिरिः स वज्रस्वामीव जग्राह 'शिशुस्तपस्याम् ॥१८२॥ (१) सूरिसमीपे । (२) जनन्या समम् । (३) धनाढ्या जायमाना याचकव्रजा येषु ।
(४) वज्रस्वामिनो जननी सुनन्दानाम्नी । (५) जयसिंहकुमारः । (६) दीक्षाम् ॥१८२॥ हील. प्रभो० । धनाढ्यीकृतयाचकजनैरुत्सवैरम्बया समं शिशुभक्षा जग्राह । यथा सुनन्दया मात्रा सह * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । 1. ०यानया० हीमु० । 2. ०डलैः । हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org