SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ २३३ वज्रस्वामी दीक्षां जग्राह ॥*१८३।। हीसुं० जयविमल इदं 'तन्नामधेयं विधिज्ञो 'व्यधित विजयदान: सूरिसारङ्गराजः । पुनर भिनवसूरेस्तं प्रदत्ते स्म सूनो-"विनयिन इव वप्ता “स्वं क्रमा'दागतं स्वम् ॥१८३॥ (१) कुमारमुनेरभिधानम् । (२) चकार ।(३) सूरिसिंह ः।(४) नवीनाचार्यस्य हीरविजयसूरेः । (५) जयविमलमुनिम् । (६) पुत्रस्य (७) विनयवतः ।(८) आत्मीयम् । (९) पितृपरिपाट्या समागतम् । (१) द्रव्यम् ॥१८३॥ हील० श्री सूरिर्जयविमल इति नाम दत्त्वा तं नवीनसूरेः प्रत्तवान । यथा पिता विनयवतः सुतस्य स्वकीयं स्वं द्रव्यं प्रदत्ते ॥*१८४॥ हीसुं० विजयदानविभुर्वट पल्लिकाभिधपुरेऽथ विभूषितवान्दिवम् । ___३भुवि ५भरेण 'विसार्य पुनर्दिवि प्रथयितुं महिमानमिवात्मनः ॥१८४॥ (१) वडलीनामनगरे । (२) स्वर्लोकमलङ्करोति स्म । (३) पृथिव्याम् । (४) अतिशयेन । (५) विस्तारयित्वा । (६) विस्तारयितुम् । (७) माहात्म्यम् । (८) स्वस्य ॥१८४॥ हील० वडलीग्रामे विजयदानसूरिः स्वर्गतः । उत्प्रेक्ष्यते । भुवि शोभा विस्तार्य स्वर्गे विस्तारयितुं गतः ॥१८५॥ हीसुं० 'सूरीन्द्रहीरविजयः "प्रतिपद्य रेपट्टलक्ष्मी गुरोरनु 'विशिष्य "पुपोष भूषाम् । "वस्तुर्निजस्य युवराज इवाधिपत्यं क्रान्तारिचक्रमखिलाम्बुधिमेखलायाः॥१८५॥ (१) श्री हीरविजयसूरीन्द्रः । (२) विजयदानसूरेः पश्चात् । (३) पट्टश्रियम् (४) प्राप्य । (५) विशेषप्रकारेण । (६) शोभाम् । (७) पुष्णाति स्म । (८) तातस्य (९) प्रभुताम् । (१०) वशीकृतशत्रुवृन्दम् । (११) भूमेः ॥१८५॥ हील० अनु-पश्चात्सूरीन्द्रो विशेषात् शुशुभे । यथा पितुः साम्राज्यं प्राप्य युवराजोऽधिकं दीप्यते ॥१८६।। हीसुं० 'मण्डयत्यमरमन्दिरं गुरौ "दीप्यते स्म 'मुनिवासवोऽधिकम् । "पद्मिनीप्रियतमेऽपराम्बुधेर्मध्यभागमिव शर्वरीवरः ॥१८६॥ (१) अलङ्कर्वति (२) स्वर्गलोकम् । (३) विजयदानसूरीन्द्रे । (४) स्फूर्ति धत्ते स्म । (५) हीरविजयसूरिः ।(६) अतिशयेन । (७) सूर्ये । (८) पश्चिमसमुद्रमध्यप्रदेशम् । (९) चन्द्रः ॥१८६॥ हील० गुरौ स्वर्गे गते श्रीसूरिरधिकं दीप्यते स्म । यथा पश्चिमसमुद्रस्य मध्यमभागं गते चन्द्रे सूर्योऽधिकं दीप्यते ॥१८७॥ 1. मेणाग० । हीमु० । 2. इति विजयसेनसरिदीक्षा-जन्मवर्णनम् हील० । 3. पद्मिनीपतिः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy