________________
२३४
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० यद्गेहशृङ्गाङ्गणनद्धमारुतप्रेवत्पताकापटपल्लवच्छलात् ।
'गोष्ठीमनुष्ठातुमिवामरावती प्रियां 'सखीमाह्वयतीव पाणिना ॥१८७।। (१) डीसानगरगृहशिखरप्राङ्गणबद्धवातान्दोलितध्वजपटकपटात् । (२) रहस्यवार्ताम् । (३)
कर्तुम् । (४) इन्द्रपुरीम् । (५) इष्टवयसीम् । (६) आकारयति ॥१८७॥ हील० यत्पुरं डीसानगरं गृहाणां शृङ्गाङ्गणबद्धः पुनर्वायुना कम्पितो यो ध्वजपल्लवः । 'जातावेकवचनम् ।
तस्य दम्भात् स्वसखीमिन्द्रपुरीं गोष्ठीकर्तुं पाणिनाह्वयतीवाकारयतीव । 'ध्वजवाचके एकत्कम्'
॥१८८॥ हीसुं० 'यदीयराजद्विभवाभिभूतया 'पौलस्त्यपूर्या किमभाजि लज्जया ।
"यदुज्झ्यतेऽद्यापि “तया न भङ्गाभिज्ञानमी शानशिलोच्चयाश्रयः ॥१८८॥ (१) डीसानगरस्य विलसलक्ष्म्या जितया । (२) अलकानगर्या । (३) प्रणष्टम् । (४) यस्मात्कारणात्त्यज्यते । (५) धनदपुर्या । (६) पलायनचिह्नम् । (७) कैलासनिवासलक्षणम्
॥१८८॥ हील. यदी० । यस्याधिकशोभया जितया लज्जया धनदपुर्या नष्टं यदद्यापि भङ्गलक्षणं कैलाशशिखरावस्थितिर्न
त्यज्यते ॥१८९॥ हीसुं० 'यदीयलक्ष्म्या विजितेव लङ्का प्रणश्य मध्येऽम्बुनिधेवि वेश । कदाचन 'प्रावृषि सूरिराजो "डीसाह्वयं तत्पुरमा ससाद ॥१८९॥
त्रिभिर्विशेषकम् । (१) डीसानगरस्य श्रिया । (२) रावणपुरी । (३) समुद्रमध्ये । (४) प्रविष्टा । (५) वर्षाकाले । (६) हीरविजयसूरिः । (७) डीसानाम । (८) पूर्ववर्णितम् । (९) आश्रयति
स्म ॥१८९॥ हील० येन जिता लङ्काऽब्धौ पतिता । तद्डीसानगरं भजति स्म ॥ १९० हीसुं० 'कुलाद्रिवाद्धिप्रतिनादमेदुरीभविष्णुनिःस्वानिततूर्यनिःस्वनम् ।
२ जिनेश्वरस्येव जना वितेनिरे पुरे प्रवेशस्य' महं मुनीशितुः ॥१९०॥ (१) मन्दरप्रमुखकुलशैलकन्दरेषु तथा समुद्रमध्ये प्रतिशब्दैः पुष्ट ष्टी )भवनशीला वादिता राजवाद्यानां नीसाणेत्यभिधानां तूर्याणां वादित्राणां शब्दा यत्र । (२) तीर्थकरस्य । (३)
चक्रुः । (४) डीसानगरे । (५) प्रवि( वे )शनोत्सवम् । (६) हीरविजयसूरेः ॥१९०॥ हील० कुलाचलेषु समुद्रे यः प्रतिशब्दस्तेन पुष्टा वादितवादित्रा रावा यत्र, तादृशमुत्सवं प्रवेशे चक्रुः
॥१९॥ 1. श्रिया हीमु० । 2. इति विजयदानगुरौ स्वर्गते हीरविजयसूरे: पट्टधरत्वम् हील० । 3. इत्यन्ते (?) त्रिभिविशेषकम् हील० । 4. पुरप्रवेशेऽतिमहं मनी० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org