________________
२३५
षष्ठः सर्गः ॥ हीसुं० 'सूरिवासवसमागमस्फुरत्प्रीतिपल्लवितचित्तवृत्तिभिः ।
'नागरैरमितपृत्क( रिक्थ )वर्षिभिः "स्पर्द्धयेव धनदो निधीश्वरः ॥१९१॥ (१) श्रीहीरविजयसूरीन्द्रागमनेन प्रकटीभूतप्रमोदेनानुरक्तीभूतमनोव्यापारैः । (२) नगरनरैः । (३) मानातीतद्रविणदायिभिः । (४) ईर्ण्ययेव । (५) संह घ)र्षेण । (५) कुबेरोऽपि
दव्यप्रदो बभूव ॥१९१॥ हील० सूरिसमागमने बहुद्रव्यवर्षिभिः पौरैः सह स्पर्द्धया निधीश्वरो-वैश्रवणो धनं ददति । इति धनदो बभूव
॥१९२।। हीसुं० 'नृत्यच्चन्द्रकिचक्रमुन्मदनदद्वप्पीहबालाकुलं
३ श्रीसूनोरिव यौवराज्यसमयं व्यालोक्य 'वर्षागमम् । “क्रीडन्शान्तरसाह्वमानससरोजन्माकरे हसंवश्रीसूरीश्वरहीरहीरविजयस्तस्मिन्सुखं १ तस्थिवान् ॥१९२॥ इति पण्डितदेवविमलगणिविरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये दक्षिणदिग्गमनद्विजसमीपपठन-गुरुसमीपागमन-पण्डितवाचकाचार्यपदप्रदान-नन्दिभवन - श्रीविजयसेनसूरिजन्मदीक्षादिवर्णनो नाम षष्ठः सर्गः । ग्रंथाग्रम् ॥२५४॥ (१) नृत्यन्मयूरनिकरम् । (२) मदोद्धताः शब्दायमानाचकोरा यत्र । (३) कन्दर्पस्य । (४) दृष्ट्वा । (५) वर्षाकालागमनम् । (६) शान्तरसनाम्नि मानसरसि । (७) मराल इव । (८) खेलन् (९) डीसानगरे । (१०) स्थितः । चातुर्मासी प्रतिक्रान्तवान् ॥ १९२ ॥
इति षष्ठः सर्गः ॥ ग्रंथाग्रम् ॥ २७५ ॥ हील० नृत्य० । नृत्यन्ति चन्द्रकिणां मयूराणां चक्राणि यत्र तम् । चन्द्रकं-पिच्छं विद्यते येषां ते । इति
उन्मदा ये नदन्तो बप्पीहानां बालाः शिशवः स्त्रियो वा । प्रायो विपदि स्त्रीणां शिशूनां कातर्याद्वालपदप्रयोगः, तैयाप्तम् । कामस्य युवराजपदाभिषेकप्रस्तावसदृशं वर्षासमयं दृष्ट्वा शमरसनाम्नि
मानसे तटके हंसवत्क्रीडां कुर्वन् श्रीहीरविजयसूरिर्डीसापुरे चातुर्मासीमासीदति स्म ॥१९३॥ हील०→यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः ।
पुत्रं कोविदसिंहसी( सिं)हविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते षष्ठोऽत्र सर्गोऽभवत् ॥१९४॥ इति पं. सी(सिं)हविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि
- महाकाव्ये षष्ठः सर्गः ॥६॥
*- एतदन्तर्गत: पाठो हीसुंप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org