________________
एँ नमः ॥
अथ सप्तमः सर्गः ॥ हीसुं० 'सूरीन्दुरानन्दयति स्म तस्मिन्पुरे समग्रानपि नागरान्सः ।
"पचेलिमप्राक्तनपुण्यपुञ्जः प्रादुर्भवन्मुर्त्त इवैष तेषाम् ॥१॥ (१) श्रीहीरविजयसूरिः । (२) हर्षमुत्पादयति स्म । (३) डीसानगरे । (४) नगरलोकान् । (५) परिपाकं प्राप्तः पुर्वजन्मोपार्जितसुकृतराशिः । (६) प्रकटीभवन् । (७) शरीरवानिव ।
(८) डीसापुरलोकानाम् ॥१॥ हील. सूरीन्द्रः पौरानानन्दयति स्म । उत्प्रेक्ष्यते । पौराणां परिपाकं प्राप्तः पुण्यप्रादुर्भावः ॥१॥ हीसुं० मिलद्वलाकाम्बरमुद्वहन्ती 'लीलागतोद्वेजितराजहंसा ।
श्यामा'लसज्जातिपयोधरोद्यद्धाराभिरामा "पिहिताननेन्दुः ॥२॥ 'सुरायुधभुलतिकात्मयोनिमुज्जीवयन्तीव तडिद्विलासा । मुदे तदानीमजनिष्ट "यूनां वर्षा नवोढा "वरवर्णिनीव ॥ ३ ॥ युग्मम् ॥ (१) आश्लिषन्त्यः पत्या सह सङ्गं कुर्वत्यो वा बकप्रिया यत्र तादृगाकाशम । “सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः" तथा- "गर्भाधान क्षणपरिचयात्" इति मेघदूते । पलेबकवदुज्ज्वलं वस्त्रं धारयन्ती । (२) वर्षादिविलासेनागमनेनोद्वेगं प्रापिता विजयकरणेविजिता विजयिनृपश्रेष्ठा यया। "विश्रान्तजिष्णुक्ष्मापालयुधि" इति चम्पूकथायाम् । तथा जम्बालाविलजलावलोकनेनोद्वेगं नीता मानसं प्रति प्रस्थातुमुत्सुकीकृता राजहंसा यया । पक्षे विलासगत्या विजितमराला । (३) कृष्णच्छवि: षोडशवार्षिकी च । स्मेरन्ती मालतीलता यत्र तथा मेघेभ्यः प्रकटीभवन्तीभिर्जलवृष्टिभिर्मनोज्ञा पक्षे दीप्यमानवंशी तथा स्तनयोर्दीप्यमानहारहारिणी । (४) धनैर्वसनैर्वा आच्छादितः मुखतुल्यो मुखमेव वा चन्द्रो यया । (१) नव्यत्वे सलज्जत्वात् इन्द्रधनुरेव तद्वद्वाभ्रूवल्ली यस्याः । (२) स्मरं प्रकटोकुर्वन्ती । (३) विद्युतस्तद्वद्वा विचेष्टितं यस्याः । (३) प्रातः । (४) तरुणानाम् । (५) नवप्रणीता।
(६) प्रधानस्त्री ॥३॥ हील० यथा नवोढा स्त्री यूनां हर्षाय स्यात्, तद्वत्प्रावृट् यूनां मुदे जाता । वृद्धानां तु शीतवातकर्दमादिना
दुःखदायिन्यत एव यूनामिति पदम् । किंलक्षणा प्रावृट् वरवर्णिनी च? । मिलद्बकाङ्गना यत्र तद्वद्वा श्वेतं गगनं वस्त्रं वा दधती । पुनर्वर्षितुमागमेन गत्या वा आतुरीकृता विजयिराजानो हंसा वा यया सा । पुनः कृष्णा षोडशवार्षिकी वा गिर्यादिषु गुर्वादिषु वा नम्रा । पुनः पयोधरेभ्यः पयोधरयोर्वा उद्यद्धराभिर्वा उद्यता हारेण रम्या, आच्छादितो वदनतुल्यस्तदेव वा चन्द्रो यया । पुनरिन्द्रधनुरेव तत्तुल्या वा भ्रूलता यस्याः ।
पुनर्प्रतं कामं जीवन्तं कुर्वन्ती(ती) । पुनविद्युतां तद्वद्वा विलासा यस्याम् ॥२-३॥ 1. मातिनम्रा च पयो० हीमु० । 2. प्रावृण्न । हीमु० । 3. युगलम् । इति वर्षा समय: हील।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org