SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३० 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० क्षीरकण्ठ: 'कृतोत्कण्ठः सञ्जाते 'जातकर्मणि ।। उत्तेजित "इवादर्शः शिश्रिये परमां श्रियम् ॥१६९॥ (१) कृता स्वजनानामौत्सुक्यं येन । (२) अशुचिकर्मनिवर्तनादिकम् । (३) शाणोल्लि खितः । (४) दर्पणः ॥१६९॥ हील० सौन्दर्यादिभिः कृता उत्कण्ठा येन, तादृशः शिशुर्दर्पण इव शुशुभे ॥१६९।। हीसुं० अयं 'जयं यतः कर्ताः सिंहवद्वेषि दन्तिनाम् । जयसिंह इतीवास्य 'बीजी नाम "विनिर्ममे ॥१७०॥ (१) कुमार: । (२) पराभवम् । (३) करिष्यति । (४) वैरिंगजानाम् । (५) बीजी तत्पिता कमाख्यः । (६) जयसिंह इति नाम । (७) चक्रे ॥१७०॥ हील० कुनयगजानां जयकृद्भावीति पिता जयसिंहनामाकरोत् ।।१७०।। हीसुं० धात्रीभिः 'प्रेमपात्रीभिः पाल्यमानः स बाल्यतः । "रामो "यादवरामाभिरि वावद्धि दिने दिने ॥१७१॥ (१) उपमातृभिः । (२) स्नेहभाजनैः । (३) जन्मदिनमारभ्य । (४) बलभद्रः । (५) यादवाङ्गनाभिः । (६) वद्धितः ॥ १७१ ॥ हील. यथा बलभद्रो यदुवंशोत्पन्नवनितापाल्यमानो वर्द्धते । तथा स वर्द्धते स्म ॥१७१।। हीसुं० पुपोषा वयवैर्वृद्धि स क्रमेण स्तनंधयः ।। ४आलवालाम्बुपायीव शि( शा)खाभिश्चन्दनाङ्कुरः ॥१७२॥ (१) शरीरङ्गोपाङ्गैः । (२) जयसिंहकुमारः । (३) स्तन्यपायी। (४) स्थानकजलपानशीलः । (५) शाखाभिः श्रीखण्डप्ररोहः ॥१७२॥ हील० स पयोधरपयः पायी बालोऽङ्गोपाङ्गानि पुष्णाति स्म । यथा स्थानकाम्बुना श्रीखण्डवृक्ष उपचयं लभते ॥१७२॥ हीसुं० स 'प्राक्च ङ्क्रमणैः पित्रोरारोप्य प्रीतिवल्लरीम् । ४आलपन्सफ लीचक्रे वर्षन्निव घनाघनः ॥१७३।। (१) प्रथमम् । (२) हिण्डनैः । (३) स्नेहवल्लीम् । (४) ब्रुवन् । (५) फलयुक्ताम् । (६) मेघः ॥१७३॥ हील. स बाल: पूर्वं हिण्डनैः स्नेहलतां स्थानके रोपयित्वा पश्चात् ब्रुवन्सन् सफलां चक्रे । यथा मेघो वर्षन प्राक् वल्ली वृक्षादिष्वारोप्य सफलीकुरुते ॥*१७३॥ 1. ०वासौ ववृधे क्रमात हीमु० । 2. ०वीरुधम् । हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy