SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२९ षष्ठः सर्गः ॥ वाक्चातुर्यात्सरस्वत्या सार्द्धमुपमीयते ॥१६४॥ हील० कंसारे० । भाषितेशया सरस्वत्योपमीयते । तादृश्या तया स स्वप्नः स्वभर्तुः पुरो भाषितः । यथा रुक्मिण्या श्रीपतेः पुरो नक्तदृष्टः स्वप्न उक्तः ॥१६४।। हीसुं० स विचार्य 'विचारज्ञोऽङ्गना मिदमजीगदत् । सूनुः सिंह इवाधृष्यो भविता तव भामिनि ! ॥१६५॥ (१) विमृश्य । (२) विचारचतुरः । (३) स्वपत्नीम् । (४) इदं वक्ष्यमाणम् । (५) कथयति स्म । (६) अनाकलनीयः ॥१६५॥ हील० स कमानामव्यवहारी प्रियामिति कथयति स्म । हे वणिनि ! तव सिंहतुल्यः पुत्रो भविता ॥१६५॥ हीसुं० 'गन्धसिन्धुरराजस्य 'वशेवालसगामिनी । अन्तर्वत्नी ततः पत्नी "महेभ्यस्य 'बभूवुषी ॥१६६॥ (१) मदमत्तगजेन्द्रस्य । (२) वशा स्त्री । एतावता हस्तिनी । यद्यपि वशाशब्दो हस्तिन्यां प्रवर्त्तते तथापि बाहुल्यान्नार्यामेव प्रयुज्यमानत्वाद्गन्धसिन्धुरराजस्य वशा हस्तिनी । वशा स्त्रीगजयोषितो "इत्यनेकार्थः । (३) गुर्विणी । (४) महेभ्यपत्नी कोडिमदेवी । (५) भूता ॥१६६॥ हील०. ततो हस्तिनीव मन्थरगामिनी इभ्यस्त्री गर्भवती सञ्जायते स्म । “वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि । वेश्यायां०" इत्यनेकार्थः । वशाशब्दो नार्यां बाहुल्यात्समग्रपदोपादनं न केवलम् ॥१६६।। हीसुं० समयेऽथ 'तया रत्या "ब्रह्मसूरिव 'नन्दनः । सुषुवे "सुषमास्तोमः प्रोद्भवन्मूर्तिमानिव ॥१६७॥ (१) कोडिमदेव्या । (२) सुतः । (३) कन्दर्पपल्या । (४) अनिरुद्ध इव । (५) सातिशायिशोभासमूह इव । (६) प्रकटीभवन् ॥१६७॥ हील० सम० । यथा स्मरपत्न्या अनिरुद्धनामा नन्दनः प्रसूतः तथा तया सुतः प्रसूत । उत्प्रेक्ष्यते । मूर्तः शोभातिशयः ॥१६७॥ 'तनूजन्माननज्योत्स्नानाथे रेलवणिमामृतम् । चकोरेणेव पिबता ननृते "पितृचक्षुषा ॥१६८॥ (१) पुत्रमुखचन्द्रे । (२) लावण्यसुधाम् । (३) सादरं विलोकयता । ( ४ ) कमानयनेन ॥१६८॥ हील० सुतवदनचन्द्रे लावण्यसुधां पिबता सादरं विलोकयता पितृनेत्रेण निर्तितम् । यथा चकोरेण नृत्यते ॥१६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy