SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२८ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० कदाप्यदर्शि तत्पल्या स्वप्ने सुखशयानया । उत्सङ्गसङ्गतः सिंहः ४श्रेयोराशिरिवा ङ्गवान् ॥१५९॥ (१) कस्मिन्नप्यवसरे । (२) कमाकान्तया पुण्यसमूह इव । (५) मूर्त्तिमान् ॥१५९॥ हील० कदा । तत्पत्नया स्वप्ने सिंहो दृष्ट: ॥ १५९ ॥ हीसुं० मृणालधवलान्स्कन्धे बिभ्रद्वन्धुरकेसरान् । शिखरे शिखरी शंभो: शारदीनानिवाम्बुदान् ॥१६०॥' हील० यथा कैलाशः शरन्मेघान् धत्ते, तद्वदुज्ज्वलकेसरान् दधन् ॥१६०॥ हीसुं० किमभ्यर्थयमानानामुच्छेत्तुं दौस्थ्यमर्थिनाम् । *कुम्भिकुम्भभिदालग्ना मुक्ता बिभ्रन्नखान्तरे ॥१६१ ॥ - कोडिमदेव्या । ( ३ ) सुखेन सुप्तया । ( ४ ) (१) याचमानानाम् । ( २ ) निवारयितुम् । (३) दरिद्रताम् । (४) याचकानाम् । (५) करिशिरोविदारणावसरे लग्ना । (६) नखानां रन्ध्रेष्वन्तराले ॥१६१ ॥ हील० भद्रहस्तिवधाल्लग्नानि मुक्ताफलानि नखान्तर्बिभ्रन् । उत्प्रेक्ष्यते । याचकान् धनाढ्यीकर्तुम् ॥१६१॥ हीसुं० 'जृम्भणादाननं काशप्रतीकाशो विकाशयन् । मत्तस्तम्बेरमीकान्तकवलीकृतये किमु ॥ १६२ ॥ आदिश्चतुर्भिः कुलकम् 12 ( १ ) जृम्भीकरणावसरे । ( २ ) काशाः प्रसिद्धास्तेषां प्रतीकाशस्तुल्यशुभ्रत्त्वात् । “विलसत्काशचामर" इति रघुवंशे । ( ३ ) मत्तेभकवलीकरणाय ॥ १६२ ॥ I हील० जृम्भीकरणान्मुखं विकाशयन् । उत्प्रेक्ष्यते । मत्तेभभक्षणाय ॥ १६२॥ हीसुं० ' जहे महेलया निद्रा विनिन्नेत्रपत्रया | सङ्गतिदौं र्ज्जनीयेव सज्जनानां ५ समज्यया ॥ १६३॥ ( १ ) त्यक्ता । ( २ ) कोडिमदेव्या । (३) विकसितनयनकमलपत्रया । ( ४ ) दुर्जनसम्बन्धिनी । (५) सभया ॥ १६३॥ हील० जहे० । विकसन्नेत्रया तया निद्रा जहे- त्यक्ता । यथा सज्जनानां साधूनां पर्षदा, दुर्जनानामियं दौर्जनीया सङ्गतिः, सा हीयते ॥ १६३ ॥ Jain Education International हीसुं० 'कंसारेरिव रुक्मिण्या स स्वप्नः स्वपतेः पुरः । तया मुदितयाभाषि “भाषितेशोपमेययाः ॥१६४॥ (१) कृष्णस्य । (२) सिंहस्वप्नः । (३) कमाख्यस्याग्रे । ( ४ ) कोडिमदेव्या । (५) 1. हीसुंप्रतौ अस्य श्लोकस्य टीका नास्ति । 2. इति कोडिमदेवी हील० । For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy