SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ तस्य कोडां नाम्नीस्त्रीरत्नं जातम् । यथेन्द्रस्य पौलोमी स्यात् ॥ १५३॥ हील० हीसुं० रम्भा दम्भादिवा' मुष्या स्त्रिदशी त्रिदशौकसः । * विमोहिता कमारूपं निरूप्य क्ष्मामुपागता ॥ १५४ ॥ ( १ ) कोडिमादेव्याः । (२) देवी । ( ३ ) देवलोकात् । (४) अनुरक्ता जाता । (५) दृष्ट्वा । (६) पृथ्वीम् । (७) समेता ॥ १५४ ॥ हील० रम्भा० । अस्या दम्भाद्रम्भा नाम्नी देवी कमारूपं दृष्ट्वा मोहिता । स्वर्गृहात्पुर्यामागता । १' || हीसुं० दृष्ट्वा पतिं रतं त्यां प्रीत्येव "त्यक्तकायया । दुःखात्स'पल्यास्त'त्पत्न्या व्याजाज्जन्माददे ऽपरम् ॥ १५५ ॥ ( १ ) स्मरम् । (२) अत्यासक्तम् । ( ३ ) रतिविषये । ( ४ ) अपरपल्या प्रीतिनाम्न्या । (५) दुःखादुज्झितशरीरया । ( ६ ) समानः पतिर्यस्याः सा सपत्नी । " सपल्यादिषु नित्यं नुक वाच्यः" इति सपत्नी । (७) कमाकान्तायाः । ( ८ ) अन्यमवतारम् ॥१५५॥ हील० रतिसक्तं स्मरं दृष्ट्वा प्रीत्या सपत्नीदुः खादन्यज्जन्म गृहीतम् ॥१५५॥ हीसुं० त्यक्त्वावतीर्णां पुरुषं पुराणं 'स्वमिमां रमाम् । विलक्ष्य: "प्रेक्ष्य तद्दुःखान्म' मज्जेवार्णवे जले ॥१५६॥ (१) वृद्धपुरुषत्वान्निजमपास्य । (२) कोडिमदेवीरूपाम् ! (३) लक्ष्मीम् । ( ४ ) वतीर्णाम् । (५) ज्ञात्वा । ( ६ ) कृष्णः समुद्रे बुब्रूडः ॥ १५६॥ हील० स्वं पतिं त्यक्त्वा मृत्वा कोडारूपेणात्तावतारं दृष्ट्वा श्रीपतिरर्णवजले मग्नवान् ॥१५६॥ हीसुं० स्पर्द्धयेव दिवा दम्भादस्याः स्त्रैणशिरोमणेः । * धृतरा पुरा रम्भा चित्तभूभूमिभृत्सभा ॥१५७॥२ (१) स्वर्गेण । (२) त्रिभुवनस्त्रीगणचुडामणिरूपायाः । (३) अपरा रम्भा । ( ४ ) धारिता । (५) नारदुपुर्या (६) स्मरराजस्थानसभा ॥ १५७॥ हील० दिवा सह स्पर्द्धया नारदपुरा अस्या मिषादितरा रम्भा धृता । किंभूता रम्भा ? | चित्तभूः कामराजा तस्यास्थानसभा ॥१५७॥ हीसुं० 'अमन्दानन्दसन्दोह २२७ धूवरौ । गमयांचक्रतुः कालं ३ केलती श्रीसुताविव ॥ १५८ ॥ (१) वर्द्धमानप्रमोदसमुदयपुष्टौ । (२) तौ कोडिमदेवी - कमाव्यवहारिणौ । ( ३ ) रतिरतीशाविव । "केलतीमदनयोरुपश्रये" इति नैषधे ॥ १५८ ॥ हील. रतिस्मराविव तौ कालमतिचक्रमतुः ॥ १५८॥ 1. व्यास्यामु० हीमु० । 2. इति कोडिमदेवी हील० Jain Education International 1 For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy