SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२६ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० बहुना महिमाभिनन्द्यते 'किमु यस्योदयसिंहभूभुजः । न 'चिरादजरामरीभवेद्युधियोऽमुष्य हि सम्मुखीभवेत् ॥१४९॥ (१) शीघ्रम् (२) देवभावं भजेत् । (३) सङ्ग्रामे । (४) यः सुभटः । (५) अस्य । (६) सङ्ग्रामाय सम्मुखीभवेत्सङ्ग्रामं कुर्यादनेनेत्यर्थः ॥१४९॥ हील. बहुना० । उदयसिंहराज्ञो महिमा किं वर्ण्यते ?। योऽनेन सह सङ्ग्रामं कुर्यात् स शीघ्रं देवभूयं भजेत् ॥*१४९॥ हीसुं० अपि तत्र कमाख्य नैगमोऽजनि तद्भपुरुहूतसम्मतः । व्यवहारिषु यः पुरो गतामिव 'वर्गेषु दधार धर्मवत् ॥१५०॥ (१) नारदपुर्याम् । (२) वणिक् । (३) राज्ञो मान्यः । (४) प्रकृष्टताम् । (५) अर्थकामेषु । (६) धर्मः । प्रधानस्तयोस्तदधीनत्वात् ॥१५०॥ हील० तत्र कमोसाधू राजमान्योऽभवत् । यथा चतुर्वर्गेषु धर्मः श्रेष्ठः ॥★ १५०।। हीसुं० किमपास्य जिनांहिसेवया शशिना येन कलङ्ककश्मलम् । स्थितमेत्य 'दिवः 'क्षितौ "पुनर्न भसो 'नीलिमसङ्गशङ्कया ॥१५१॥ (१) त्वक्त्वा । (२) जिनो-वीतरागः कृष्णश्च तस्यांहे:-पदस्य सेवया । विष्णुपदसेवया । (३) कलङ्कमलम् । (४) येन यद्व्यवहारिरूपेण । (५) आकाशादागत्य । (६) भूमौ स्थितम् । (७) व्याघुट्य । (८) आकाशस्य । (९) श्यामत्वस्य सङ्गस्याशङ्कया ॥१५१॥ हील. स्वविमानस्थप्रतिमां गगनं वा तत्सेवया कलङ्करहितश्चन्द्र आकाशकालिमस्पर्शभयाद् भुव्यागतः ॥१५१॥ हीसुं० 'करवीरगृहत्व'मुग्रतां प्रविहायात्मविरूपनेत्रताम् । "पुरि ‘यन्निभतोऽवतीर्णवानिव पीयूषमयूखशेखरः ॥१५२॥ (१) श्मशानवेश्मताम् । (२) चण्डत्वम् । (३) स्वस्य विरुद्धं विकृताकारं वह्निमयत्वानेत्रं तत, ताम् । “अहिर्बुध्नो विरूपाक्षविषान्तकौ” इति हैम्याम् । (४) नारदपुर्याम् । (५) कमाकपटात् । (६) चन्द्रशेखरः । शंभुः ॥१५२॥ हील० श्मशानगृहत्वं चण्डतां विरूपतां त्यक्त्वा शंभुरुत्तरितः ॥१५२॥ हीसुं० कोडाईत्यस्य कान्ता भूज्जग तीयुवतीमणिः । "यथा सुमनसां २ सार्वभौमस्य जयवाहिनी ॥१५३॥ (१) त्रिभुवनवनिताचूडामणिः । (२) इन्द्रस्य । (३) शची । (४) यथा इवार्थे ॥१५३॥ 1. किममष्योदय० हीमु । 2. योऽभ्येत्य हीमु० । 3. इत्युदयसिंहराणकः हील० । 4. ०गतां समवर्गे० हीमु० । 5. नापास्य कल. हील० । 6. इति कमोसाह: हील० । 7. ०न्तासीज्ज० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy