SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२५ षष्ठः सर्गः ॥ हिसुं० प्रविभाव्य भवेन भस्मितं स्मरमे तन्निखिलानुजीविनः । किमु यत्र समेत्य चक्रिरे वसतिं 'पौरपरम्परोपधेः ॥१४४॥ (१) दृष्ट्वा । (२) शंभुना । (३) भस्मीकृतम् । (४) स्मरस्य समस्ताः सेवका: । (५) नागराणां कपटात् ॥१४४॥ हील० स्मरं दग्धं दृष्ट्वा तत्सेवकाः । उत्प्रेक्ष्यते । नागरजनदम्भात्तत्पुरे वासं कृतवन्तः ॥१४४॥ हीसुं० कुतुका द्वहुरूपिणं स्मरं हृदि निश्चित्य रतिर्युवभ्रमात् । स्वयमप्यकरोदि दंमिता निजमूर्तीः किमु 'यद्वधूपधेः ॥१४५॥ (१) अनेकाणि(नि) रूपाणि सन्त्यस्येति । (२) ज्ञात्वा । (३) पुरीजनोपधेः । (४) स्मरशरीरसङ्ख्याः । (५) नगरीनागरीकपटात् ॥१४५॥ हील० कुतु० । बहुरूपधारिणं स्मरं दृष्ट्वा रतिर्यद्वधूदम्भात्तावन्ति रूपाणि कृतवतीव ॥१४५।। हीसुं० मुरवैरिपुरीव 'माधवोऽजनि तत्रोदयसिं[ ह]भूधनः । धरणीरमणं प्रणीय यं शुशुभे श्व(सू )रमिवारविन्दिनी ॥१४६॥ (१) द्वारिकायामिव । (२) कृष्णः । (३) पृथ्वी यं पतिं प्रविधाय । (४) सूर्यम् । (५) पद्मिनीव ॥१४६॥ हील० यथा द्वारिकायां कृष्णः तद्वन्नारदपुर्यां उदयसिंहराजा जातः । यं भर्तारं कृत्वा भूरेजे । यथा रविमाप्य कमलिनी राजते ॥१४६।। हीसुं० युवतीव 'युवानमङ्गजान्क लधौतप्रमुखान्खनी व्रजान् । पृथिवी पृथिवीपुरन्दरं यमवाप्य प्रमदादजीजनत् ॥१४७॥ (१) स्त्री । (२) पुरुषं प्राप्य । (३) पुत्रान्जनयति । (४) स्वर्णरूप्यादीन् । (५) खानिनिकारान् । (६) उदयसिंहनृपम् । (७) हर्षात् ॥१४७॥ हील० यथा युवानं प्राप्य युवती सुतान्जनयति तद्वत् यं पतिमाप्य स्वर्णरूप्याकरान्प्रकटीकृतवती ॥१४७॥ हीसुं० 'विपुलां 'विपुलाहवाहताहितशूरस्त्रवदत्रराशिना । हृदयेशव दूर्गुणा( ना)व यो 'नवकौसुम्भिकवास[ सा] वशाम् ॥१४८॥ (१) पृथ्वीम् । (२) महासङ्ग्रामे हतानां रिपूणां सुभटानां शरीरनिः सरगुधिरव्रजेन । (३) भर्तेव । (४) आच्छादयामास । (५) कुसुम्भेन रक्तं वस्त्रं कौसुम्भिकम् ॥१४८॥ हील० यो राजा महासङ्ग्रामेषु हतशत्रुभ्यो निःसरद्रक्तौघेन पृथ्वीमूणुनावाच्छादयामास । यथा भर्ता नवेन कुसुम्भरक्तवसनेन वशापूर्णोनोति । ह्वदिको धातुः ॥१४८॥ 1. oीरिव हीमु० । 2. इति नारदपुरी हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy