________________
'श्री हीरसुन्दर' महाकाव्यम्
(१) आश्रिता गजा याभिस्तथा सह गन्धैष्प ( : प ) रिमलैस्तथा सारैर्मज्जि ( ज्जा ) भिर्वर्त्तन्ते ये तादृशास्तरुश्रेणयः । मलयाचलपक्षे- आश्रिता भुजङ्गा याभिस्तादृशाश्चन्दनतरुपङ्क्तयः । ( २ ) क्रीडाकायाः । ( ३ ) यमवाञ्छाक्रोडं तत्त्वतस्तु दक्षिणदिश उत्सङ्गम् । ( ४ ) त्यक्त्वा ॥१३९॥ हील० श्रिता नागाः - सर्पा हस्तिनो वा तथा सह गन्धैः सारैर्मज्जिभिश्च वर्त्तन्ते, तादृशा वृक्षा येषु । तत्त्वतश्चन्दन वृक्षयुक्ताः पर्वताः शोभन्ते । उत्प्रेक्ष्यते । यमस्य वाञ्छाया अङ्कमुत्सङ्गम् । तत्त्वतः दक्षिणदिक्क्रोडम् । त्यक्त्वा मुदितस्य मलयगिरेः क्रीडार्थं कायाः ॥१३९॥ हीसुं० इह नीवृति नारदाभिधा नगरी नागपुरीव राजते ।
बलिराजविराजितान्तरा रममाणानणुभोगिभाजिनी ॥१४०॥
२२४
(१) मेदपाटे । (२) बलवत्ता राज्ञा शोभिता । पक्षे- बलिनाम्ना राज्ञा शोभिता । ( ३ ) स्वैरं क्रीडन्तोऽनणवो महान्तो भोगभाजो राज्यादिसातयुताः पुरुषास्तान्भजन्ते इत्येवंशीला । पक्षेखेलत्प्रलम्बभुजगयुक्ता ॥ १४०॥
हील० इह नी० । मेदपाटे नडुलाई बलिष्ठराज्ञा युक्ता । पुनर्बहुधनाढ्यैरहिभिर्वा युक्ता शोभते । उत्प्रेक्ष्यते । भोगा (ग) वती ॥१४०॥
हीसुं० 'उपमातुमिवामरावतीं भुवनं तन्निभभावदुर्विधे ।
कृतवानरविन्दनन्दनः पुरमेतां विबुधैरुपासिताम् ॥१४१॥
( १ ) उपमायुक्तां कर्त्तुम् । ( २ ) तत्तुल्यापरनगरदरिद्रे । ( ३ ) ब्रह्मा । "पद्मनन्दनसूतारिरंसुना” इति नैषधे । तद्वदरविन्दनन्दनः । (४) पण्डितैर्देवैश्च । (५) सेविताम् ॥१४१॥ हील० अमरावतीतुल्यार्थैर्दरिद्रे जगति तत्सदृशामेनां विधिरकरोत् ॥ १४१ ॥ हीसुं० 'युवती युवराजिराजिते नगरे सालनिभान्म ेनोभवः ।
स्थितवान्नव सूरिसाध्वसादिव दुर्गं प्रविधाय ५ सानुगः ॥१४२॥
( १ ) तरुणी तरुणश्रेणीभूषिते । (२) प्राकारकपटात् । ( ३ ) स्मरः । ( ४ ) नवीनः सूरिः श्रीहीरविजयसूरिस्तस्य भयात् । (५) ससेवकः ॥ १४२ ॥
हील० पुरदुर्गदम्भात्कोट्टं कृत्वा । उत्प्रेक्ष्यते । स्वसेवकयुक्तः कामः स्थितः ॥ १४२ ॥
हीसुं०
'यदनन्यहिरण्यशीतरुग्मणिक्लृप्तालयलक्ष्मिकाङ्क्षया ।
चरणं
( १ ) यस्याः पुर्या असाधारणानां स्वर्णैश्चन्द्रोपलैः कल्पितानां गृहाणां शोभां प्राप्तुं वाञ्छन्तौ । (२) विष्णुपदम् । (३) सूर्याचन्द्रमसौ । "हरिः शुचीनौ गगनाध्वजाध्वगा" विति हैम्याम् ॥ (४) भजेते स्म ॥१४३॥
हील० यस्य पुरस्य साधारणस्वर्णैश्चन्द्रकान्तमणिभिः कृतगृहशोभेच्छया सूर्यचन्द्रौ विष्णुपदं सेवेते स्म ॥१४३॥
वैरिणोऽनिशं शुचिचन्द्रावु पचेरतुः किमु ॥ १४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org